पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
अस्मिन्नपवर्तित खकक्ष्यया गुणेन विभक्ते लब्धो राशि: सहस्त्र
(१०००) संख्यः । एष स्वेष्टदिनगणः । अथ द्विच्छेदाग्रे भाज्यराशा-
वनपवर्तितेनाधिकाग्रभागहारेण द्विच्छेदेन हृते लब्धौ गतौ रविभगणौ
द्वौ (२) शिष्टमुद्दिष्टरविकक्ष्याग्र-तुल्यम् । अथ द्विच्छेदाग्रे भाज्य-
राशावेवानपवर्तितोनाग्रभागहारेण चन्द्रच्छेदेन विहृते लब्धा गता
श्चन्द्रभगणाः षट्त्रिंशत् (३६) शेषमुद्दिष्टरविकक्ष्याग्रसमम् । एवं
द्वयोः कक्ष्याग्रयोरुद्दिष्टयोस्सतोरानयनप्रकारः । बहूनां कक्ष्याश्रेषू-
द्दिष्टेषु भिन्नबहुभागहारभिन्नबहप्रयोः कुट्टाकारानयनप्रकारेण भाज्य-
राश्यहर्गणगतभगणास्साध्याः । एवं सूर्यसिद्धान्तमार्गमवलम्ब्य कक्ष्या
कुट्टाकारानयनं प्रदर्शितम् | आर्यभटीयानुसारेण कक्ष्या-कुट्टाकारा-
नयने तु विशेषः । अत्र सूर्यसिद्धान्तानयनमार्गेणैतदानयने यत्र यत्र
सहस्त्रगुणनमुक्तं तत्तदिह न कर्तव्यम् । अन्या सर्वाऽपि प्रक्रिया
समाना । अथ खिलविशेषानुपपन्नप्रश्न उदाहियते । उद्देशक:-
योष्टा भिर्नवभिप्षड्भि
र्दशभिश्चतुरप्रकः ।
द्वयाद्यैश्चर्तुभिरकाग्र
-
स्तं राशिं व्याहराञ्जसा ॥ २३ ॥
अत्र षड्भिरष्टभिर्वा यो राशिश्चतुरस्रो भवति स कथं चतुर्भिर्द्वाभ्यां
वा रूपाप्रो भवतीत्यालोच्य प्रश्नोऽयमनुपन्न इति ब्रूयात् । एवमन्येऽ-
प्यनुपपन्नाः प्रश्ना बोद्धव्याः । अथ खिलविषय उदाहियते । उद्देशकः-
द्विचत्वारिंशताद्व्यग्रः
षडिंशत्यैकशेषकः ।
यो राशिस्तं द्रुतं ब्रूहि
सायं वेदभवान्यदि ॥ २४ ॥