पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
66
ऊनाग्रभागहारं छिन्द्यादधिकाग्रभागहारेण ।
शेषपरस्परभक्तं मतिगुणमप्रान्तरेक्षिप्तम् ||
अधउपरिगुणितमन्त्ययुगूना प्रच्छेदभाजितेशेषम् ।
ऊनाग्रच्छेदगुणं द्विच्छेदाग्रं विहीनशेषयुतम्" ||
इति । अस्मिन् पाठे यदा समायां फलपङ्ख्यां मतिकल्पनेष्टा
तदाग्रान्तरमृणं कृत्वा मतिं कल्पयेत् । यदा विषमायां तस्यां
मतिकल्पनाऽभिमता तदाऽग्रान्तरं धनं कृत्वा मतिं कल्पयेत् । एव-
मधिकाग्रादिसूत्रयुगलं साग्रमधिकृत्य विस्तरेण व्याख्यातम् । अथैत-
त्सूत्रयुगलम्य विषयमार्यया दर्शयति ।।
अवशेषविषमभावे शेषस्यैकस्य शून्यतायां च ।
अवतरति सूत्रयुगलकमिदमन्यत्र तु निगद्यते कर्म ॥९॥
इदं सूत्रयुगल कमवशेषविषमभावकस्य शेषस्य शून्यतायां चाव-
तरति । अन्यत्र तु कर्म निगद्यते । यत्राग्रयोरुभयाबेईनां वाऽभाव-
स्समत्वं वा तत्र कर्मोच्यत इत्यर्थः सूत्रयुगलकमित्यत्र स्वार्थे “ कप् ”
प्रत्ययः । तदिदं कर्मायया ॥
शेषाभावे हारावपवर्त्याम् परस्परं हत्वा ।
अपवर्तकेन गुणयेच्छेषसमत्वे तु शेषमपि युञ्जयात् ॥ १०
इति श्रीदेवराजविरचिते कुट्टाकारशिरोमणौ साम्रपरिच्छेदः प्रथमः ।।
अस्यास्तूदाहरणमेव व्याख्यानम् | उद्देशकः--
द्वयाद्यैदशकपर्यन्तैर्यो राशिश्शून्यशेषकः ।
तं राशिमभिधेहि द्राक् तान्त्रिक प्रामणीर्वद ||
२५