पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याससिद्धान्तमार्ताण्डविमर्शनम् "
इह खलु निखिलजनावीदतमेतत् यत्परमकारुणिको भग-
वान् बादरायणो नारायणांशोऽपारसंसारसागरनिममं जीवजातमुद्दिधीर्षोः
परमशिवस्य आज्ञया सकलोपनिषदर्थनिर्णायकं न्यायजालं सूत्रयामास
अथातोब्रह्माजज्ञासत्यादि यच्च व्याचख्यौ तत् परमशिवावतारभूतः
श्रीशङ्कराचार्यः यथान्यायं सर्वग्राह्यमिति । कथमेतदवगम्यते? सूतं
संहितादिपुराणात् । तथाहि, सूतसंहितायाम् –
66
“ स च नारायणस्यांशो भगवान् बादरायणः
इत्यारभ्य -
66
66
" सूत्रयामास वेदान्तवाक्
इत्यन्तम्-
99
तथाऽदित्यपुराणे-

"" ।
तथा मानवपुराणे “न्यायस्सूत्रात्मना प्रोक्तस्सर्वज्ञेन महात्मना ।
व्यासेनैव प्रसादेन शिवस्य परमात्मनः
"" ||
"व्याकुर्वन् व्याससूत्राणि श्रुतेरर्थं यथोचिवान् ।
स एवार्थश्श्रुतेर्ग्राह्यः शङ्करस्सविताननः ” ॥
इति एवं कूर्मपुराणेsपि
करिष्यत्यवताराणि शङ्करो नीललोहितः ।
श्रौतस्मार्तप्रतिष्ठार्थ भक्तानां हितकाम्यया ||
उपदेक्ष्यति तच्छास्त्रं यज्ज्ञानं ब्रह्मसंज्ञितम् ।
सर्ववेदान्तसारं हि धर्माद्वैतनिदर्शनम् ||
यत्तद्विप्रा निषेवन्ते सन्यासेनोपचारतः ।
विजित्य कालजान् दोषान् यान्ति ते परमं पदम् " ॥