व्याससिद्धान्तमार्तांडविमर्शनम्
इत्युपबृंहणात् “अनन्तपदं देशकालवस्तुपरिच्छेदरहितं स्वरूपमाहेति
श्रीरामानुजीयभाष्याच्च । तथा च गुणवत्वे दोषवत्वे च वस्तुपरिच्छेद-
राहित्यायोगात् ब्रह्मपदं निर्गुणं निरतिशयं बृहत्वोपलक्षितं स्वरूपं
प्रत्याययति । अन्यथा अन्यतमपरिच्छेदवतोऽपि घटवत् अनित्यत्वेन
अनित्ये प्रपञ्चे विरक्तस्य मुमुक्षोः ब्रह्मजिज्ञासानुपपत्तिः । ब्रह्मशब्दस्य
शिवविष्ण्वादिपरत्वे शैवपाञ्चरात्रयाद्यागमसिद्धार्थबोधकत्वेन ज्ञातार्थ-
ज्ञापकत्वादस्य शास्त्रस्याप्रामाण्यापत्तिश्च । ये च शैवादयो निरङ्कुशं
ब्रह्मशब्दं स्वस्वमतानुसारेण व्याकुर्वन्ति, स्वमतप्रतिष्ठार्थं परमतश्च
खण्डयन्ति, ते पृष्टाः व्याचक्षताम् । किं भवतां अद्वैते तात्पर्यं
परमम् ? उत द्वैते ? नाद्यः अस्मन्मतप्रवेशेन परस्परं कलहस्य
वैयर्थ्यात् । न द्वितीयः
,
भवद्भिः परस्परं कल्पिते द्वैते विशेषाभावात् ।
यदि उभयकल्पितं द्वैतम् परस्परसम्मतं तर्हि मार्गभेदः किमर्थं
प्रवृत्तः ? यद्यत्र मार्गभेदो नास्तीत्युच्यते तर्हि भाष्यभेदः किमर्थं
प्रवृत्तः ? शिवस्य विष्णोर्वा प्रधानस्य भेदादिति चेत् - मूलभूतसूत्रेषु
अन्यतरबोधकस्य असाधारणपदस्य अभावात् रिक्तपात्रे दर्वीचालनवत्
भवतां भाष्यकरणस्य अकिञ्चित्करत्वात् तादृशपदसत्वे किं पुनः
कलहायन्ते परस्परं तत्रभवन्तः ? किञ्च भवन्मते शिवस्य विष्णोर्वा
,
सर्वशब्दवाच्यताभ्युपगमेन अन्यंत्किञ्चित् ब्रह्मसूत्रात् मूलं पुरस्कृत्य
भाष्यं प्रतन्यताम् किं ब्रह्मसूत्रोपमर्दनेन? शिवविष्ण्वाद्यभ्युपगन्त्रा
अद्वैतिना अनभ्युपगतः कः पदार्थः भवदीयैरभ्युपगतः ? येन वैष्णवेषु
परस्परं कलहः शैवेषु वा आविर्भूतः । अद्वैतिना शिवविष्ण्वादीनां
मिथ्यात्वमुच्यते नास्माभिरिति चेत्, तर्हि शिवस्य वा विष्णोर्वा
पारम्यं कलहायमाणैः परस्परं भवद्भिः कथं निर्णीयेत? उपक्रमोप-
संहारादिप्रमाणजालं च शैववैष्णवमतसाधारणम् । अतः भवन्मत-
,
पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/२८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति