व्याससिद्धान्तमार्तांडविमर्शनम्
."
इत्युक्ता श्लोकद्वयानन्तरं
अखण्डैकरसार्थे तु वेदान्तास्सकला भृशम् ।
पर्यवस्यन्ति नान्यत्र तथा व्यासेन कीर्तितम् ||
संसर्गार्थे द्विजा वेदाः समस्ता आस्तिकोत्तमाः ।
पर्यवस्यन्ति च यथा तथा जैमिनिनेरितम् ||
इति प्रकरणेन व्यासेरितवेदान्तार्थः अखण्डैकरसः तन्निर्णायक सूत्रजालं.
व्यासक्कृतमपि तत्परं, संसर्गागोचरप्रमाजनकत्वलक्षणाखण्डार्थकत्वं उप-
निषदां इति च सिद्धम् । अथ मानवपुराणं यदि प्रामाणिकं तदा
व्यासमतमद्वैतम् तदुक्तसूत्रजालमपि तत्परमिति विश्वसितुं शक्यते ।
तत्रैव प्रमाणं नास्तीतिचेन्न, "यद्वै किञ्च मनुरवदत्तद्भेषज़ " मितिश्रुतेः
मनूक्तेः प्रमाणमूर्धन्यत्वात्, किञ्च “ धर्मशास्त्रेषु मानवस्येव व्याकर-
णेषु पाणिनीयस्येव च विष्णुपुराणस्य सजातीयग्रन्थेभ्यः प्रकर्षाति-
शयो नापन्होतुं शक्यत" इति श्रुतप्रकाशिकाकृदुक्तेश्च । एवञ्च
अद्वैतस्य श्रुतिस्मृतिव्यासकृतसूत्रप्रतिपाद्यत्वे सिद्धे सति अद्वैती व्यास
एव माध्यस्थ्यं वोढुमर्हति । कथं व्यासेन मध्यस्थेन व्यवस्था कृते-
तिचेत् शृणु नित्यशुद्धबुद्धमुक्तस्वभावस्य परमात्मनो मायोपाधिकस्य
नामविशेषाः शिवविष्ण्वादिशब्दाः । न तु अर्थतो भेदः परस्परं तयोः +
नामानि तव गोविन्द यानि तानि ममापि च ।
आवयोरन्तरं नास्ति शब्द र जगत्पते ||
66
66
"
इति महाभारतवचनात्, सब्रह्म सशिवस्सहरिस्सेन्द्रस्सोक्षरः : परम-
स्वराट्' “ त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वं वरुणस्त्वं रुद्रस्त्वं
विष्णुस्त्वं प्रजापतिः ” इत्यादिश्रुतिभ्यश्च । एवञ्च आगमसिद्धेशव-
बैष्णवमतयोः सामंजस्ये सति व्यासप्रणीते ब्रह्मसूत्रे अद्वैतिव्यति-
रिक्तानां विवरणावकाशाभावः न्यायविदां सुप्रसिद्ध एव । अत्रा-
७१
.
पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/३०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति