पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४
श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिकां
ज्ञानस्वरूपमेबाहुः जगदेतद्विचक्षणाः ।
अर्थस्वरूपमेवान्ये पश्यन्त्यज्ञाः कुदृष्टयः ॥ "
इति । अत्र वेदविद्वांस इत्युक्तया वेदव्यासस्य वेदविदग्रणीत्वात्
तन्मतमद्वैतं वैदिकं च अज्ञाः कुदृष्टय इत्युक्तया तद्विपरीतमतं
अवैदिकमिति स्फुटं विमर्शकानां एवं पाराशर्ये सप्तदशाध्याये ---
द्वयोर्भेदो न चेत्तर्हि भेद एकस्य वस्तुनः ।
भेद एकस्य यः प्राप्तस्स मृषा चन्द्रभेदवत् ||
66.
इत्युपक्रम्य -
" मायामात्रमिदं द्वैतमद्वैतंपरमार्थतः ।
इत्याह हि परा शुद्धा श्रुतिस्सत्यार्थवादिनी ॥ "
इति श्रुत्यैव श्रुतितात्पर्यस्य वर्णितत्वात् तदर्थनिर्णायकत्वेन प्रवृत्तं
ब्रह्ममीमांसाशास्त्रमपि अद्वैतपरमिति सिद्धम् ||
(अनुवर्तते)
विद्वान् पालघाद नारायणशास्त्री.
·