अभिनवसुभाषितावलिः
III
अथ पुनरिदानीं तेषामेव श्रीमतां पारुपते गुरुराजवर्याणां
कृतिष्वन्यतमं श्रीमदम्बानवरत्नमालिकास्तोत्रद्वयं सहृदयहृदयाह्लादनाय
समर्प्यते । तत्रभवन्तः पूर्वोदाहृतरसिकतावैदग्ध्यसमलंकृता आचार्य -
वर्याः असकृदाविष्कृताव्याजदेवताभक्तिसुधाविशुद्धान्तरङ्गाः निरति-
शयानन्दमयाश्च विराजन्ते स्मेति हन्त ! पुराकृतं महात्मनाम् !
यद्यप्येतादृशानि स्तोत्राण्यम्बाविषयकाणि बहूनि प्रसिद्धानि सिद्ध-
प्रोक्तानि, तथापि परमकरुणामयं पूज्यतमं वस्तु नान्यज्जनन्या:;
तन्न चित्रं प्रतिनरमयमम्बास्तवो भिद्यते अथाप्यपूर्वा शोभामाघते
वशीकुरुते च सर्वेषां मनांसीत्यलं बहुना ॥
66
""
कदाचित् साम्प्रदायिके स्थिरवासरीयदेवताभजनावसरे सवयस्याः
चतुष्पथवीथिकासु पुरुषोत्तमं स्तुवन्तः मार्गे शिवायतनं प्रविष्टाः,
कालमहिम्ना सर्वेष्वप्याबालवृद्धेषु भगवत्पादारविन्दभजनपरवशेषु सस्नेह-
प्रदीपदीपितमुखेषु "अये, गुरुराज ! अम्बामधि किमपि स्तूयताम्
इति सुहृदा साट्टहासहासमुत्साहिता एते आचार्या: सहसान्तर्ज्वलित-
दिव्यदीपेनेव वत्सस्यानान्यशरण्यतां सम्भावयन्त्याम्बया प्रसारितेन
रागेणेव रुचिरपाटलितं मुखं देवीपदकमलमभ्यावृत्य निरर्गलया वाचा
इत्थमस्ताविषुरिति प्रसङ्गः ॥
पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/३४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति