पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिनवसुभाषितावलिः
(२) अम्बानवरत्नमालिका
नित्यचिदानन्दमयीं निरुपमगुणकालितललितलावण्याम् ।
निखिलनिलिम्पवरेण्यां नित्यशरण्यां नमामि भुवनेशम् ॥ १
पापविनाशननिरतां पावनचरितां परावरैर्विनुताम् ।
परमदयारसभरितां परशिवदयितां नमामि भुवनेशीम् ॥ २
अनुभूतिमात्रसारा मखिलोदारामपारगम्भीराम् ।
अमृतपयोधिविहारामरुणाकारां नमामि भुवनेशीम् ॥
पुण्यैकसमधिगम्यां पुरुतरनिज महिमलब्धपारम्याम् ।
पूजकसन्ततिसौम्यां पुरहरसाम्यां नमामि भुवनेशीम् ॥
बन्धूककुसुमरक्तां भक्तजनोद्धरणबहुविधासक्ताम् ।
भवहृदयसानुरक्तां बहुगुणयुक्तां नमामि भुवनेशीम् ॥
निगमलसत्परमार्थी निजजनततिविहितपरमपुरुषार्थाम् ।
निःश्रेयसैकसाथ निखिलसमर्था नमामि भुवनेशीम् ॥
अमरावनैकदीक्षामसुरविपक्षामसाधुकृतशिक्षाम् ।
अध्वरधिकृतदक्षा मक्षालक्षां नमामि भुवनेशीम् ॥
राजीवचपलनयनां मौक्तिकराजीव विशदशुभरदनाम् ।
राजीवविजयिवदनां राज्यनिधानां नमामि भुवनेशीम् ॥
पीनोत्तङ्गसुवृत्तस्तनयुगजितमदनकुम्भिकुम्भयुगाम् ।
शुम्भादिदम्भशमनीं शम्भुमनोशां नमामि भुवनेशीम् ॥
नवरत्नमालिकाख्यामेता मार्यामुदारसविशेषाम् ।
गुरुराजसुकृतिरचितां दयया साङ्गीकरोतु निजहृदये ॥

स्तोत्रद्वयमिदं श्री गुरुराजहस्ताक्षरसत्कृतमातृकं तत्तनूजैः हेमावतीतीरविराज-
मान नृसिंहपुर वास्तव्यैः श्रीमद्भिरण्याचार्यैः कृपयाऽस्मदायत्तीकृतमिति भूयानुप-.
कारः चिरं स्मर्यते ॥
एच्. एल्.
हरियप्प.