पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मजिज्ञासा.
क्रियते
धर्मजिज्ञासया अधर्मोऽपि जिज्ञासितो भवतीति धर्मजिज्ञासैवात्र
। धर्मस्वरूपमधिकृत्य बहुधा विप्रतिपत्तिर्दृश्यते । सुखसाधनं
धर्मः दुःखकारणमधर्मः इति न दोषारहितं लक्षणं भवितुमर्हति ।
अभोज्यभोजनापेयपानागम्यागमनादिष्वपि दुःखकारणेषु इष्टसाधनता
बुद्ध्या जनाः प्रवर्तन्ते । अतः किं सुखसाधनमिति न निर्णेतुं शक्यते ।
तथा च-
66
पुंसो नेष्टाभ्युपेयत्वात्क्रियास्वन्यः प्रवर्तकः ।
प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ।।
इति मण्डनमिश्रविचिते विधिविवेके (२४३तमपुटे) अनूदितश्लोका-
नुसारेण इष्टसाधनमेव क्रियासु प्रवर्तकम् । प्रवर्तनापरनामकं प्रवृत्ति-
कारणमेव धर्म इति अव्याप्तयतिव्याप्तयादि दोषरहितं लक्षणं न भवति ॥
प्रवृत्तिहेतुमधिकृत्य पाश्चात्या विद्वांसोऽपि बहुधा विप्रतिपद्यन्ते ।
प्रयोजनमेव प्रवतर्कमिति प्रयोजनापरनामकफलेप्सया क्रियमाणा क्रियैव
धर्मः इति के चन पाश्चात्या वदन्ति । प्रयोजनमनुद्देिश्य न मन्दोऽपि
प्रवर्तते । इति लोकोक्त्यनुसारेण प्रयोजनविरहिता क्रियैव नास्ति ।
किं च सप्रयोजनं कर्म धर्म इति लक्षणमपि न निर्दुष्टम् । चौर्यमपि
सप्रयोजनमिति को वा चौर्य धर्म इति वदेत् ? अनिष्टाननुबन्धि
सप्रयोजनं कर्म धर्म इति अनिष्टानुबन्धिनां चौर्यादीनां कर्मणां धर्मत्व
निवारणेऽपि, किमिष्टं किं वा नेष्टमिति निर्णेतुमशक्यतया धर्मस्वरूप-
निर्णयो दुस्साध एव भवति । किं च देहात्मबुद्ध्या शारीरसौख्याय
केवलं क्रियमाणं कर्म इह लोके अनिष्टाननुबन्ध्यपि परलोकनाशक-