पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
इति च स्पष्टं भवति । अथापि प्रतिभाया धर्मोपदेशकत्वं नाभ्युपगन्तुं
शक्यते । सत्यामपि प्रतिभायां केचन जनाः कथं परदारान् जिगमिषन्ति ?
जागर्त्यामपि प्रतिभायां कथं कृष्णसर्पः अनपराध्यन्तमपि नरं दष्टुमिच्छति ।
स नतस्य जातिधर्मः । प्रतिभामप्युल्लङ्घ्य प्रणिनः क्रियासु प्रवर्तेरन्यदि
तदा प्रतिभा शासितृपदवीमारोढुं नार्हति । अतः प्रतिभावादिनां
पक्षे धर्माधर्मनिर्णयः दुस्साध एव । " सतां हि सन्देहपदेषु वस्तुषु
प्रमाणमन्तःकरणप्रवृत्तय" इति शाकुन्तले काळिदासोक्तमपि प्रतिभा-
प्रामाण्यं क्वाचित्कमेवेति ज्ञेयम् ॥
तदित्थं प्रयोजनं प्रवर्तकमिति, सुखसाधनं प्रवर्तकमिति,
प्रतिभा प्रवर्तिकेति च पाश्चात्यानां त्रयः प्रसिद्धाः पक्षाः बहोः
कालात् पूर्वमेव भरतखण्डवासिभिः विद्वद्भिः दूरोत्सारिता इति स्पष्ट
माकल्यते ॥
बलवदनिष्टाननुबन्धित्वे सति इष्टसाधनत्वे सति कृतिसाध्यता-
ज्ञानं प्रवर्तकमिति तार्किकनिष्कृष्टं लक्षणमपि धर्माधर्मस्वरूपं बोध-
यितुं नालम् ॥
महर्षिः जैमिनिस्तु – “चोदनालक्षणोऽर्थो धर्मः " इति मीमांसा :
सूत्रे धर्मलक्षणमाह । सूत्रमिदं शबरस्वाम्यादिभिः शास्त्रविचक्षणैः
स्पष्टं व्याख्यातं वर्तते । तेषां व्याख्यानं पारिभाषिकभूयिष्ठं अन-
बीतशास्त्राणां दुर्बोधमिव दृश्यते । अतोऽत्र पारिभाषिक शब्दानुत्सृज्य
सूत्रार्थो वर्ण्यते । एतल्लक्षणं लौकिकवैदिकोभयधर्ममपि लक्ष्यीकरोति ।
या च क्रिया येके वेदे च लोडन्तैः लिङन्तैश्च धातुभिः तव्या-
नीयप्रत्ययान्तैश्च पदैः विहिता बोध्यते सैव चोदनेत्यभिषयते ।
सैव क्रियाधर्म इत्यभिधीयते । एतादृशक्रियास्वपि या अनर्थमदा