पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मजिज्ञासा
सा वर्जनीया । तथा च लोके वेदे च लोडन्तैः लिङन्तैः क्तव्या-
नीयरन्तैश्च पदैः विहिता अनर्थविरहिता क्रियैव धर्मः इति लक्षणं
भवति ॥
वेदे यागादिक्रियाः
विहिता वर्तन्ते । लोके च
८१
सत्याभिवदनानृतदूरीकरणादिक्रियाश्च
आयुष्कामः क्षीरं पिबेत् ' “ धनार्जन -
99
कामः आङ्ग्लभाषाध्ययनं आङ्ग्लवस्तुवाणिज्यं वा कुर्यात् ” इति वेदा-
गोचराः क्रियाः सर्वजनाभ्युपगमेन विहिता ज्ञायन्ते । एतासां क्रियाणां
धर्मत्वे न किमप्यपहीयते । यासां क्रियाणां अनर्थप्रापकत्वं स्पष्टं
दृश्यते, यासां च धर्मत्वे जनानां विप्रतिपत्तिः वर्तते तासां सार्वजनी-
नोऽभ्युपगमो नास्तीति तादृश्यः क्रियाः लोडन्तादिदैः न बोध्यन्ते ।
तथाहि “आयुष्कामः क्षीरं पिबेत्” “धनार्जनकामः आङ्ग्लभाषाध्ययनं
कुर्यात् ” इति विहिते क्षीरवानस्य आङ्ग्लभाषाध्ययनस्य च धर्मत्वे न
कोऽपीदानीं विसंवदति । आङ्ग्लजनाचारानुष्ठानं तु बहुभ्यो भरतखण्ड-
जनेभ्यो न रोचते । अत स्तद्विषये “आङ्ग्लाचाराननुतिष्ठ" इति
लोडन्तेन प्रवर्तना न श्रूयते लौकिकवार्तासु । अतश्च लौकिकक्रियासु
क्रियाः लोडन्तादिभिरविसंवादं बोधिताः तासां धर्मत्वमविवाद-
ग्रस्तमिति ज्ञायते ॥
यथा वेदे तथा लोकेऽपि कानि चित्कर्माणि नित्यानि
कानि चित्काम्यानि, कानि चिच्चनैमित्तिकानि वर्तन्ते । तानि
च सुज्ञेयानीति नात्र विशदीक्रियन्ते ॥
तदित्थं लोके वेदे च यद्यच्चोदितमनर्थविरहितं कर्म दृश्यते
तेषु नित्यमहरहः करणीयम् काम्यानि यथाकाममनुष्ठेयानि नैमित्ति-
कानि च सति निमित्ते कर्तव्यानि । यथा प्लेग्रोगहेतोः जना
अन्यत्र गच्छन्ति तानि च कर्माणि धर्मा एवेति जैमिनिना
5