पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मजिज्ञासा
सञ्जिवृक्षन्ति । अतश्च तेषु साहसशीला अशेषजगदैश्वर्यं स्ववशं
कृत्वा अलसानन्यान् दासीकुर्वन्ति । धनिनः दरिद्रा इति द्विधा
विभक्ता जनाः तेषु परस्परं कलहायन्ते । धनहेतोः कलहायमा-
नान्जनान् विनेतुं न शस्त्रादन्यदस्ति शरणं । पञ्चदशवत्सरेभ्यः
प्राक् रप्यादेशसार्वभौमो झार्नामा चक्रकर्ती सपुत्रकळत्रः प्रजाकोपाझौ
भस्मसात्कृतस्समासीत् । इदानीमराजकोऽयं देशः प्रजासङ्घनैव पाल्यते ।
अन्येषु देशेष्यपि राज्ञो हन्तुकामास्ते प्रजाप्रकोपमुज्जालयन्ति । एतादृश-
दुःखपरम्परायाः निवृत्तिधर्माज्ञानमेव कारणमित्यत्र न कोsपि सन्देहः ।
पुरा खलु भरतखण्डे शककालात्प्राक् वत्सराणां चतुर्थे शतके
अशोको नाम चक्रवर्ती बौद्धदीक्षामवलम्ब्य निवृत्तिधर्ममनुतिष्ठन्
प्राज्यं राज्यकोशं प्रायच्छदिति ज्ञायते । तदा तदानीन्तनाः धनिनश्च
स्वं स्वं धनं दरिद्रदैन्यदूरीकरणाय बौद्धाचार्यसङ्घाय प्रायच्छन्निति
स्पष्टं श्रूयते । जैनाः बौद्धाः शैवा वैष्णवाश्च भरतखण्डवासिनो
जना: निवृत्तिधर्म एव परमो धर्म इति श्लाघन्ते । अविदित-
निवृत्तिधर्माः पाश्चात्या जना धनहेतोः राज्यक्षोभं प्रजाक्षोभं
चोत्पादयन्ति ॥
आर्. शामशास्त्री.
८३