पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्री.
“सावित्र्या ऋषिर्विश्वामित्रः । ततश्च विश्वामित्रोत्पत्तेः
प्राग्गायत्र्या अदर्शनेन (ज्ञानाभावेन) उपनयनस्याभावेन द्विजा नासन् |
एवंच तदा द्विजत्वशून्यैरपि वेदाध्ययनं कृत्वा तदुक्तयागानामनुष्ठानं
कृतमेव यथातथेदानीमप्यस्तु । इत्याक्षेपो न समंजसः ||
अजान् ह वै पृश्नींस्तपस्यमानान् ब्रह्म स्वयंभ्वभ्यानर्षत् ।
तदृषयो भवंस्तदृषीणामृषित्वम्" इति तैत्तिरयिारण्यकेन अनादितया
विद्यमानानामेव तत्र प्रकाशमात्रमिति समाघेयत्वात् ॥
( स्वयंभु ) प्रमाणांतरमनुपजीव्य स्वयंभूतम् । स्वतःप्रमाणभूत-
मिति यावत् । (ब्रह्म ) वेदः । तपश्चरतः ( अजान्) अयोनिसम्भवान् ।
( पृश्नीन् ) पुरुषान् प्रति । ( अभ्यानर्षत् ) अभिजगाम । अतस्तेषा-
मृषित्वं बोध्यमित्यर्थः ॥
-
अनेन चायोनिसम्भवेषु (ब्रह्मणा आदौ सृष्टेषु) अन्यतमोयं विश्वा-
मित्रः न गाधिनन्दनो विश्वामित्र इत्यंगीकारे एव तस्य ऋषित्व-
मुपपद्यते नान्यथा | ए वंच स एवायं विश्वामित्रः “ धातायथापूर्व-
मकल्पयत्" इति श्रुत्युक्तरीत्या पुनः पुनः प्रतिकल्पमुत्पद्यते
कल्पान्ते च विनश्यति । तथा च पूर्वपूर्वकल्पस्थविश्वामित्रस्य
ऋषित्वनावस्थानात्सर्वदा गायत्री आसीदेवत्युपनयनस्याविच्छेदेन प्रवृ
त्तिर्निराबाघैवेति दिक् ॥
“य एषोंतरादित्ये” इति श्रुतिरादित्यविषयिणी, तत्सवितुरिति
गायत्री तु सवितृविषयिणीति तत्र “य एषोंतरादित्ये” इति श्रुतिः
प्रमाणं न भवेदिति न शंकनीयम् ||
66
सविता सर्वस्य प्रसविता "
८४
,
66
इति आदित्योपि सवि-