पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तोच्यते " इति निरुक्ताभ्यां सवित्रादित्ययोर्नभेद इति सिध्यति ।
"
गायत्री
सर्वस्रष्टृत्वं नैकस्य सामान्यस्य, महायोगिनोपि नेतीश्वरस्यैवेति वाच्य-
मिति शृतिप्रतिपादितादित्यापि स ऐवेति भेदबुद्धेरसंभवात् ||
एवं च गायत्र्या स एवोपास्य उपनतस्येति निष्कामनया
(ईश्वरप्रीत्यर्थत्वेनैव) वेदाध्ययनेन तदंगाध्ययनेन तदर्थज्ञानेन संध्यादि-
नित्यनैमित्तिककर्मणामनुष्ठानेन च चित्तशुद्धिं संपाद्य श्रवणांदावधि -
कारी स्यादित्युक्तं युक्तमेव ॥
“सावित्र्या ऋषिर्विश्वामित्र: " इत्युच्यते । एतस्या एव
गायत्रीसावित्रसिरस्वतीत्येवं नामभेदः कालभेदात् ||
तत्र ऋषिर्नाम ( मन्त्रद्रष्टा विद्यमानानां मन्त्राणां द्रष्टा
“ येन यदृषिणा दृष्टं, सिद्धिमाप्नोति येन वै
मन्त्रेण तस्य तत्रोक्तमृषेर्भावस्तदात्मकम् " ||
इति विनियोगाध्याये याज्ञवल्क्य आह । येन ऋषिणा यदृष्टं वेदवाक्यं,
येन मंत्रेण सिद्धिम् (अभिलषितार्थसिद्धिं) प्राप्नोति च तस्य तत्रोक्त -
मृषित्वमित्यर्थः
1: 11
गौतमीयतंत्रेऽपि-
||
“ महेश्वरमुखाज्ज्ञात्वा यः साक्षात्तपसा मनुम् ।
संसाधयति शुद्धात्मा स तस्य ऋषिरीरितः ॥ ”
इति । मनुं वेदमंत्रं वेदं वा । अत्र पाझे उत्तरखंडे विशेष:-
“ततोवर्धात्स तं शंखं विष्णुर्वै मत्स्यरूपधृक् ।
अथ तं स्वकरे कृत्वा बदरीवनमागतः ॥
तत्राहूय ऋषीन् सर्वानिदमाज्ञापयद्विभुः ।
विष्णुरुवाच-
-
जलांतरे विशीर्णांस्तु यूयं वेदान्प्रमार्गथ ।
आनयध्वं च त्वरिताः सरहस्यान् जलांतरात् ||