पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्री
८७
प्राणायामेन वातपित्तश्लेष्मादिदोषाणां नाशो भवति । धारणया
पापानां नाशो भवति । प्रत्याहारेणेन्द्रियाणां वशीकरणाद्विषयसंसर्गों
न भवति । ध्यानेन शोकमोहदंभक्रोधमात्सर्याद्याभमाना नश्यन्ति
( दह्यते इति यावत् । ततो मनः (चित्तं ) शुद्धम् ( एकाग्रं ) सत्
ब्रह्मोपासनायां सर्वथासक्तं भवति । तदुत्तं कपिलेन-
"
"
“प्राणाया मैदहेहोषान् धारणाभिश्च किल्बिषान् |
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ||
यदा मनः स्वं विरजं योगेन सुसमाहितम् ।
मूर्ति भगवतो ध्यायेत्स्वनासाग्रावलोकनः ॥ " इति ।
तथा – “ब्रह्मादयोपि त्रिदशाः पवनाभ्यासतत्पराः ।
अभूवन्नन्तकभयात्तस्मात्पवनमभ्यसेत् ||
यावद्वद्धो मरुद्देहे यावच्चित्तं निराकुलम् ।
यावद्दृष्टिभृवोर्मध्ये तावत् कालभयं कुतः ।। ” इतिच ।
एवं च सर्वथा पूर्णायुर्मध्येप्राप्त कालभयानवारकस्य परमपावनतपोरूपस्य
अष्टमं वय आरभ्य अभ्यसनीयतां प्राप्तस्य सर्वेष्टसिद्धिप्रापकस्य
सर्वानिष्टनिवारकस्य लोकानुग्रहसाधनस्य प्राणायाम स्यात्यन्तावश्यकत्वे-
प्युपनयनादारभ्य ब्रह्मचारिणस्तथा गृहस्थस्य सन्यासिनश्च प्रायः
अभ्युदयनिश्श्रेयससाधिकां तां प्रक्रियामन्यांश्चात्यंतावश्यकान्यमनिय-
मांश्च सर्वथा दूरीकृत्य उपनयनविवाहादिप्रक्रियानुकरणमात्रमुपनेत्रादय-
उपनितादिभिः कारयन्ति कुर्वन्ति च । तेनोपनीताः गृहस्था
विवाहितास्त्रियश्चेत्येवं सर्वेपि करुषान्तःकरणतयो ऐहिकामुष्मिकशुभ-
फलप्रापककर्मपर्याचनाशक्ता खखकर्तव्य कार्यसामान्ये विमुखाः स्वेच्छा -
चारविहारा नास्तिका एव भूत्वा स्वधर्मत्यागेन दुराचारेण च सर्वं
भरतखण्डं व्याकुलयन्त्यविच्छेदेन दुःखान्यनुभवन्ति च । तस्मादत्र
सर्वैरपि शक्तैर्नानारूपेण यत्नानास्थाय यथावद्वर्णाश्रमधर्मपूर्ण यथा
भरतखण्डं स्यात्तथा रक्षणीयं न तत्रौदासीन्यमाश्रयितव्वमि पल्लवितेन ॥
काशी. शेषवेङ्कटाचलशास्त्री.
.