6
स्समुन्मिषति तावदानन्दले शोऽपि रसिकसञ्जीविन्यवलोकनेन नोपलभ्यते ।
अस्मिंश्च श्लोके दीक्षिताः शब्दशक्तिमूलकमुपमालङ्कारध्वनि, विरोधा-
भासं, श्लेषं, व्यतिरेकालङ्कारं च तत्तलक्षणसंगमनपूर्वकं सम्यग्विवव्रुः,
वाच्यार्थप्रदर्शनप्रकारः पण्डितप्रकाण्डैः प्रकामं निफालयितव्यः ।
अस्मिन्नेव लोके 'धन्यैश्विरादपी' त्यत्र धन्यं धननिमित्तः संयोगः
तद्वद्भिः 'गोद्र्यचोसङ्ख्यापरिमाणाश्वादेर्यत्' इति पाणिनिसूत्रेण धनस्य
निमित्तं संयोगः इत्यर्थे यत्प्रत्यये कृते तत अर्शआदित्वादच्प्रत्ययं
स्वीकृत्य पूर्वोक्तार्थं केनाप्यनुन्मीलितपूर्व प्रकट्यकार्षुः ॥
विषमालङ्कारप्रकरणे उदाहृते 'त्वद्वसाम्यमयमम्बुज कोशेल्या-
श्लेषमूलातिशयोक्तिविषमप्रतीपनिदर्शनाभेदान्
व्याख्या-
-
कुवलयानन्दम्
6
८९
दिश्लोके
6
,
नान्तरानुपलब्धान् निरूपयामासुः ।' 'आश्रित्य नूनममृतद्युतय
इतिश्लोके वेदान्तशास्त्रसंमतोऽर्थः कुवलयानन्द एव स्वयं विवनुः ।
अतः वरदराजस्त वाख्योऽयं ग्रन्थः कुवलयानन्दस्याध्यापकैरध्ये तृभि-
चादरादवश्यं सम्यग्विमर्शनीय । इति तद्न्थपरीशीलयितॄणां स्पष्टम् ।
नामैव ते वरद वाञ्छितदातृभावं' इतिश्लोके उत्तरार्धं 'न ह्याग-
मोदितरसः शृतिसिद्धमर्थं लिङ्गेन बोंद्यमुरारी कुरुते विपश्चित् '
इति राजस्वे अन्यथा वर्तते । दीक्षितैरेवास्मिन्पद्ये प्रकृत-
लोकोक्त्यलङ्कारलक्ष्यानुगुण्येन 'विश्वप्रसिद्धतरविप्रकुलप्रसूतेयज्ञोपवीत-
वहनं हि न खस्वपेक्ष्यं' इति द्राविडभाषागाथानुकारि (नाडु अरंन्जिन
ब्रह्मणनक् पूणल्एन्तक्) लक्ष्यं अन्यथा विपरिणमितमिति भाति ।
एवं च वरदराजस्तवतद्वाख्यानयोः सम्यक्परिशीलनेन कुवलयानन्द-
पाठस्योपकारो भूयान् भवतीत्यत्र न विचिकित्सा |
,
२. एवं 'अभिलषसि यदन्दिो वॠलक्ष्मी मृगाक्ष्या' इतिविष-
मालङ्कारलक्ष्यत्वेनोदाहृते लोके, 'सुविमलमथ बिम्बं पारिजातप्रसूनैः
6
पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/४८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति