पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृत महापाठशालापत्रिका
सुरभय' इतिपाठः सर्वत्र विश्रूयते । आकरग्रन्थे मल्लिकामारुताख्य-
प्रकरणे तावत् 'सुविमलमथ बिम्बं पारिजातस्य गन्धैः' इत्युचितः
पाठः सन्दृश्यते. अत्रयदुचितमित्यत्र सहृदया एव प्रमाणम् ||
३. पर्यायालङ्कारप्रकरणे 'पद्मं मुक्त्वा गता चन्द्रमित्यत्र' 'पद्म
मुक्त्वेति तत्परित्यगोक्त्या प्राक् तत्संश्रयाक्षेपेण पर्यायनिर्वाहः। अत एव
श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः
6
पद्भ्यां मुक्तास्तरळगतयः संश्रिता लोचनाभ्यां ।
धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं
त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ||
इत्यत्र पर्यायं काव्यप्रकाश उदाजहार' इति दीक्षिताः आचख्युः ।
परं त्वेतत्पद्यं काव्यप्रकाशे अलङ्कारप्रकरणे कुत्रापि नोपलभ्यते । तद्वि-
वरणभूते काव्यप्रदीपेऽपि नानुभूयते । चक्रवर्तिश्रीवत्सलाञ्छनप्रभृतयः
प्रामाणिकाः प्रकाशव्याख्यातारोऽपीदं पद्यं न व्याचख्युः । अत एव
भीमसेनाचार्या : सुधासागरे काव्यप्रकाशव्याख्याने – 'श्रोणीबन्धस्त्यजति
तनुता' मितिपद्यं प्रक्षिप्तमिति निश्चिक्युः । एवं च काव्यप्रकाशि-
कायामलक्षितं 'श्रोणीबन्ध' इतिपद्यं काव्यप्रकाश उदाजहारेति प्रामाणिका
अप्पदीक्षिताः कथमभिदधुरित्याशङ्काऽऽञ्जस्येन समुदेति । तथापि
काव्यप्रकाशिकाव्याख्यनेष्वासन्नपन्चाशेषु प्रप्रथमं माणिक्यचन्द्राचार्य -
कृते महीशूरराष्ट्रीयप्राच्यकोशागारसम्मुद्रिते सङ्केतनामके व्याख्याने
'श्रोणीबन्धस्त्यजती' त्यादिपद्यमुदाहारि । तदनुसृत्यैव दीक्षितचरण-
र्निजगदे । तदनुगामिभि: कमलाकरभट्टसरस्वतीतीर्थवैद्यनाथदीक्षित-
नागेशभट्टप्रभृतिभिः कटाक्षितं. नवीनेन भीमसेनाचार्येण प्रक्षिप्तमिति
जाल्पतमिति चेन्न, नवीनेनैव पण्डितराजजगन्नाथेन रसगङ्गाधरे
पर्यायप्रकरणे 'प्रागर्णवस्येति सर्वस्वकारोदाहृते, ' 'श्रोणीबन्ध' इति
,
.