कुवलयानन्दम्
6
काव्यप्रकाशोदाहृते च तथैव दृष्टत्वादित्युक्तत्वेन प्रक्षिप्तत्वभाषणं न
विचक्षणक्षोदक्षममिति दीक्षितसूतौ नाप्रामाण्यशङ्कालेशावकाशः ।
यद्यपि बालभारतादौ श्रोणीभांगस्त्यजति तनुतामिति' पाठो दरी-
दृश्यते तथापिदीक्षितैः प्राचीन सङ्केतव्याख्यानुरोधात् 'श्रोणीबन्धस्य-
जती' तिपाठस्समादृत इति विपश्चिद्भिः सन्तोष्टव्यं ||
४. अवज्ञालङ्कारलक्ष्यत्वेनोदाहृतं -
'मदुक्तिश्चेदन्तर्मदयति सुधीभूयसुधियः
किमस्या नाम स्यादरसपुरुषानादरमरैः ।
यथा यूनस्तद्वत्परमरमणीयापि तरुणी
कुमाराणामन्तः करणहरणं नैव कुरते || '
इतिपद्यं नैषधमहाकाव्ये द्वाविंशसर्गे द्विपञ्चाशदुत्तरशततम श्लोकत्वेन
संलक्ष्यते । तत्र च नैषधकाव्ये 'यथा यूनस्तद्वदित्यपरार्धं पूर्वार्धत्वेन
दृश्यते,’ ‘मदुक्तिश्चेदि’ ति पूर्वार्धमुत्तरार्धत्वेन (पाठः) मुद्रितकोशेषु
सर्वेषूपलभ्यते । कुवलयानन्दे व्यत्यासेन पाठोपलब्धिः स्पुटैव । तर्द्धनयोः
पाठयोः कतरः श्रेयानिति जिज्ञासाऽऽञ्जस्येन समुन्मिषति सर्वेषां मनी-
षिधुरीणानां । विद्वच्चक्रचूडामणिः श्रीहर्षकविबृन्दारकः भवभूत्यादिवत्
ग्रन्थादौ स्वख्यातिं स्वग्रन्थप्राशस्त्यादिकमादौ नाचकथत् । किन्तु
प्रतिसर्गान्ते रचित 'श्रीहर्षंकविराजराजिम कुटालङ्कारहीरे' तिपद्ये उत्तरार्धे
स्वविरचितान् ग्रन्थान् 'द्वाविंशो नवसाहसाङ्कचारते चम्पूकृतोऽयं
महाकाव्ये' इत्यन्तं. छंद; प्रशस्ति, गौडोवींशकुलप्रसस्ति, श्रीविजय-
प्रशस्ति, खण्डनखण्ड प्रभृतीन् निर्दिश्य तदनु विद्वत्तल्लजमात्रग्राह्ये
स्वग्रन्थे बालिशानामरसिकानामनादरभावमाकलय्य तत्पारीजिहीर्षुरिदं पद्यं
रचयामास । परमरमणयिलावण्यशालिन्या रमण्याः रसानभिज्ञकुमारान्तः-
करणहरणाकतृत्वं न दोषायेति प्रकृतानुगुण्येन दृष्टान्तवाक्यार्थः पूर्वं
९१
,
पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/५०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति