पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिप्रायमयूस्खः
IV.

आर्याः
प्राचीनार्य संस्कृतौ अनार्यतासंक्रमः.
देशान्तरादारादायाताः भारतवर्षं समाक्रम्य तत्र
विद्यमानान् अनाघातनागरकतागन्धान् दस्यूनपसार्य स्वयं सिन्धुनद-
प्रान्ते राज्यं चक्रिर इति नवनानां सिद्धान्तः । आर्यानार्याणां परस्पर-
मसंपर्कमभिपद्यन्ते नवीनाः । एवं सति परुत् भारतराजकीयप्राक्तं-
नविमर्शशाखाधिकारिणः सुगृहीतनामानो रामप्रसादचन्दा स्वीये
‘Survival of the Pre- Historic civilisation of the Indus
Valley' इति ग्रन्थे आर्याचारे अनार्यसंवासवशाल्लब्धावकाशाः
केचन सिन्धुनदप्रान्तीयाचाराः अद्यावधि प्रतिष्ठिता उपलभ्यन्त इति
मतमुद्धाट्य एतदवसरे अनेका युक्ती: प्रदर्शयामासुः । एष विचारः
विचक्षणानां पर्यालोचनसह इति किं चिदिव तन्यते ||
1. आर्यो दासश्च.
आर्यदासयोः यस्संग्राम्योभूत् स न वर्णितः ऋग्वेदे ।
ऋग्वेदनिरूपित कालकलया तु आर्यदासयोः कलहकोलाहलश्शान्त
एवासीत् । परं आर्येष्वेव स्वव्यूहकलहो दर्यदृश्यत । यथा हि सुदासः
अनेकर्षिपरिष्कृतपार्श्व राजदशकं प्रति युयुधे । वासिष्ठा भार्गवाश्च पक्ष
प्रतिपक्षभावमङ्ग्यकार्षुः । अनिन्द्रः, अयज्यः, अनृतंदवः इत्यादिपदानि
पूर्व दस्यून् प्रति प्रयुक्तान्यपि कालक्रमेण आर्येष्वेव अरिपक्षवर्तिनमपि
जनं पराममृशुरिति विज्ञायते । महर्षिरपि वसिष्ठः अनृतदेव इत्यभि-
शप्तो दृश्यते । स यातुधान इति शङ्कास्पदमपि बभूव (ऋ ७.१०४.
१४-१५) ।
राजदशकं विजित्य राजासुदासः राजसूयेन इजे । एत-
स्मन् बढ़त्विजे यागे सुदासः विश्वामित्रं मुख्यपदत्वेन वत्रे | राज-
९३