पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराज
संस्कृतमहापाठशालापत्रिका
पुरोधा वसिष्ठश्च॒क्रोध । ततो वसिष्ठतनयश्शक्तिनामा अभिचारिक-
मत्रान् प्रयुज्य विश्वामित्रं विमतिं चकार । अत्रान्तरे जामदग्नयः
ससर्परबिलात् विश्वामित्रस्यामतिमपनीय त प्रतिनिवृत्तप्राणं चक्रुः ।
अन्ते विश्वामित्रपक्षपातिनः सौदासा शक्तिं निजघ्नुः ॥
एवं ऋग्वेदनिरूपिते काले दासा (दस्यवः) विधूतविद्वेषा ऊरी-
कृतार्यसख्याश्च बभूवुः । दासवर्णसंपृक्तायां जनतायां कारणान्तरात्सं-
भूतस्संग्रामस्तत्रतत्रोपवर्णितः ऋग्वेदे इति वक्तुं शक्यते ॥
2. राजा तत्पुरोधाश्च.
पुरा भारतवर्षे राजानः कुलपुरोधसमेकं वव्रुः । राज्ये राजकार्य
पुरोहितकार्यमिति कार्यविभागः अभूत् । इति वृत्रदृष्ट्या एष विभाग एव
विलक्षणः। आर्याणां प्रथमावासात् भारतेतरदेशान् प्रति गतास्वार्यशाखा-
स्वदृष्टचरः एषकार्यविभागः । तथाहि ईजिप्ट् बाबिलोनियादि देशेषु राजैव
राष्ट्रपुरोधाश्च भूत्वा यज्ञादीन्समपद्यत । रोम् ग्रीस् इत्यादिदेशेष्वपि
राज-पुरोहितः एव ( राजा चासौ पुरोहितश्च ) राज्यमकरोत् ।
पारसीकदेशे तु मगी (Magi) इति पुरोहितकुलं भारतेय-
ब्राह्मणकुलप्रतिमानं बभूव । आदौ मगिकुलमतिपरिमितमेवाभूत् ।
पारसीका राजकीये अधिकारे उच्चभावमापन्नाः देवयजनादिषु मागिनां
साहाय्यमपेक्षन्तेस्म । एवं क्रमशः मगिकुलमभ्यवर्धत । मागनः
ग्रामस्यैकस्मिन् भागे उषित्वा मगिवर्ण इति वर्णान्तरमेव प्रावर्त-
यन् । सर्वस्यास्य कारणं मार्गणीयम् । पारसीका राजानः यतः
अपरिचितकर्मकलापं परधर्मं उत स्वविस्मृतमपि अन्यैः कैश्चन श्रद्धालुभि-
स्संरक्ष्यमाणं कंचन पुरातनं धर्ममवललंबिरे तत एव मगिनां प्राधान्यं
समजायत । भारतवर्षेऽप्यनयैव कथया भवितव्यमिति रामप्रसाद
चन्दा उहन्ते । आर्यागमनकाले सिन्धुनदप्रान्ते ये राजनः अवर्तन्त ते
-