पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिप्रायभयूखः
धर्म इत्यभिप्रयन्ति । एवं च काश्चन स्मृतयः अनुमरणानुमोदिकाः,
काश्चनानुमरणनिरोधिकाः ॥
अनुमरणानुमोदकनिरोधकशास्त्रयोः परस्परं विरोधः कुशल-
मतिना माधवेन एवं पर्यहारिनिराधकशास्त्रेण स्त्रियाश्चित्यन्तरे
दहनं निरुद्धं, न तु दहनमात्रम् । अस्मिन् मते आधारभूता श्रुतिर्न
विद्यते ॥
इतिहासे काश्चन क्षत्रियस्त्रियः सकृत् अनुगमन माचेरुः । यथा
पाण्डुपली माद्री, वसुदेवसत्यश्चतस्रः देवकी, रोहिणी, भद्रा मदिरेति ॥

क्रिस्तीय वर्षाणां सप्तमे शतके बाणः स्वीयकादंबर्या अनुगमनं
व्यर्थमित्याकलयतिस्म । नवमे शतके मेधातिथिरपि अनुमरणं नानुमेने

एकादशशतके विज्ञानेश्वरः, त्रयोदशशतके माघवश्च अनुमरणं तुष्टाव |
दशमशतकपर्यन्तं ब्राह्मणा अननुमतानुमरणाः क्षत्रियाश्चाभिमतानुमरणाः
एवासन् । विज्ञानेश्वरकालात् अनुमरणानुमोदस्तु जातिसांकर्यनागर-
कतासांकर्यभयजन्यः ॥
5. यतिनो व्रात्याश्च.
वर्षचतुष्टयात् प्राक् पश्चापदेशे मोहेनजोदारो इति प्रदेशे भूगर्भे
एकं पत्तनं भूशोधकैः आविष्यकारि । तत्रोपलब्धानि घटापटाभरणादि-
पदार्थजातानि प्रायः वर्षाणां चतुः सहस्रात् प्राक् कृतानीति विमर्श -
काभिप्रायः । तत्र अर्धनिमीलितनयनाः नासान्तन्यस्तदष्टयः केचन
शिलामयविग्रहा उपलब्धाः । ते प्राक्तनयतिप्रतिकृतय इत्यूयते । यतिनः
ऋग्वेदे (viii – 3, 9 ) भृगुप्रस्कण्वप्रतिमाना महीयान्ते । तैत्तिरीयसंहि-
तायां (ii—4-9-2) पंचविंशब्राह्मणे (viii – 1,4) चत एव इंद्र-
क्रोधमुत्पाद्य तेनेन्द्रेण शालावृकेभ्य उपहारीकृता विनाबालकत्रितयं इत्यु-
क्तम् । इन्द्रामिपूजकाः भृगुप्रस्कण्वप्रतिमानाः यतिनः कथमिंद्रशत्रवोऽ-
7
-