पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थावलोकनम्-
॥श्रीः॥
श्रीगीतास्वामिविजयः, नवभक्तिरसायनं च.
पुस्तकमूल्यं अष्टौ कलाः. प्राप्तिस्थानम्, के. आर्. सुब्रह्मण्यशास्त्री,
श्रीगीतास्वामि मठः, हनुमान् घाट्, बनारस् सिटि.
इदं च पुस्तकद्वयं श्रीकाशीनिवासिभिः श्रीगीतास्वमिचरण-
कमलाराषकै: श्रीकृष्णशास्त्रिभिः विरचितम् ; श्रीगीतास्वामिविजयश्च
श्रीस्वामिनां चरित्ररूपः सरळैः पद्यैस्संग्रथितः ॥
.
भक्तिप्रधानश्च नवभक्तिरसायनाख्यो ग्रन्थः । अत्र च श्रावणादि-
रूपेण भक्तेर्नवधा विभागः विभक्तानां लक्षणानि, श्रवणादीनामन्त-
रङ्गबहिरङ्गभावश्च, उपास्तीनां परस्परं भेदः, उपास्तिभेदेन तासां फल-
तारतम्यं चं, ह्याद्युत्पत्तौ तत्तद्वीजगतानां सामर्थ्यानामेव असा-
धारणकारणत्वम्, पर्जन्यस्य च साधारणकारणत्वं यथा, तद्वत्
प्राणिकर्मणामेव सुखाद्यनुभवे असाधारणकारणत्वं ईश्वरस्तु साधार-
णकारणम्, भक्तेश्च वर्णाश्रमाद्यनपेक्षत्वात् सर्वसुकरताचेत्येतत् सर्वं
सरळतमैः मधुरैः पद्यैः वर्णितम् लौकिकैदृष्टान्तैश्चोपष्टम्भितम्,
अनायासेनावग्रन्तुं शक्यते । अन्यत्र दुरूहान् विषयान् बाला अप्यत्र
सुस्बेनाऽवजानन्तीत्यत्र नास्ति सन्देहलेशोऽपि ॥
,
भक्तिविषये इतः पूर्वं एतादृशो ग्रन्थः नोपालभ्यत इत्यपि वक्तुं
शक्यते । सर्वेऽप्यास्तिकशिखामणयः ग्रन्थं चेमं पठित्वा अनुसन्धाय
चात्रस्थान् विषयान् भगवति निविष्टस्वान्ताः श्रियः पतेः कृपाकटाक्ष-
पात्रतामीयुरित्याशास्महे ॥
विद्वान् रा. नारायणस्वामिदीक्षितः
९९