पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुमज्जरीविमर्शः
महोपाध्याय शिरोमाण पदभूषितैः के. यल्. व्यासरायशास्त्रिभिः विर-
चितो घातुमञ्जरीग्रन्थः आन्तं दृष्टः परिशीलितश्च यथामनीषम् ।
संस्कृतभाषाव्युत्पित्सूनां आनलेयविद्याभ्यासवतां अतीवोपकारकः विना
प्रयासं तत्र कालविशेषे प्रकारविशेषे च तत्तल्लकारोपयोगबोधनं कवर्गी-
यांतादिक्रमेण घातूनां सेटकत्वानिटकत्वबोधनं कारिकारूपेण आङ्ग्
लेयभाषया धात्वर्थविवरणं तत्तल्लकाराणां परिनिष्ठितरूपविशेषापपत्ति-
साधकावान्तरक्रियाविशेषप्रदर्शनमित्यादि
बहुगुणगणभूषित इति च सुदृढं
विश्वसिमि ॥
यद्यपि संस्कृतभाषायां प्रायेण चतुस्सहस्रसंख्याका धातव-
स्सन्ति बर्तन्ते च बहवो धातुरूपबोधकाः धातुवृत्तिधातुरूपप्रका-
शिकादयः आकरग्रन्थाः तथापि लोकव्यवहारोपयुक्तप्रसिद्धधातु-
रूपाणां संग्रहात् (विक्षिप्तसंग्रहात्क्वापि क्वाप्युक्तस्योपपादनात् ।
अनुक्तकथनात्क्वापि सफलोऽयं श्रमो ममे) त्यभियुक्तोक्ति स्मरयत्ययं
ग्रन्थ इत्यावेदयिता ||
नेरूरु कृष्णाचार्यः,
मैसूरु संस्कृतमहापाठशाला व्याकरण प्रधानाध्यापकः.