पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । देवसोमा- (क) अह्माअं पि एत्थ भिक्खा रुद्दभाओ भविस्सदि। . कपाली - अहो दर्शनीयानि प्रहतमर्दळकरणानुग- तानि विविधाङ्गहारवचनभ्रूविकाराणि उच्छ्रितैकहस्तावल- म्बितोत्तरीयाणि विगलितवसनप्रतिसमाधानक्षणविषमितल- यानि व्याकुलितकण्ठगुणानि मत्तविलासनृत्तानि । देवसोमा- (ख) अहो रसिओ खु आअय्यो। कपाली- एषा भगवती वारुणी चषकेष्वावर्जिता प्र- त्यादेशो मण्डनानाम् , अनुनयः प्रणयकुपितानां, पराक्रमो यौवनस्य, जीवितं विभ्रमाणाम् । किं बहुना, मिथ्या त्रिलोचनविलोचनपावकेन भस्मीकृतां मदनमूर्तिमुदाहरन्ति । स्नेहात्मिका तदभितापवशाद् विलीना सेयं प्रिये! मदयति प्रसभं मनांसि ॥१०॥ देवसोमा- (ग) भअवं ! जुज्जइ एदं । णहि कोओव- आरणिरदो लोअणाहो कोअंविणासेदि । (उभौ कपोलपटहं कुरुतः ।) (क) आवयोरप्यत्र भिक्षा रुद्रभागो भविष्यति । (ख) अहो रसिकः खरुवाचार्यः । (ग) भगवन् ! युज्यत एतत् । नहि लोकोपकारनिरतो लोकनाथो लोकं विनाशयति।