पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । शाक्यभिक्षुः---- (क) किं दे सों। कपाली-कपालम् । शाक्यभिक्षुः- (ख) कहं कबाळं। कपाली-कथं कपालमित्याह । अथवा युक्तमेतत् । दृष्टानि वस्तूनि महीसमुद्र- महीधरादीनि महान्ति मोहात् । अपहृवानस्य सुतः कथं त्व- मल्पं न निहोतुमलं कपालम् ॥ १३ ॥ देवसोमा -- (ग) भअवं! केवळं ळाळीयमाणो ण दइ- स्सदि । ता एदस्स हत्थादो आच्छिन्दिअ गच्छामो । कपाली-प्रिये ! तथा । (आच्छेत्तुं व्याप्रियते । ) शाक्यभिक्षुः- (घ) धंस दुट्ठकवाळिअ ! । (हस्तेन नुदन् पादेन ताडयति ।) कपाली-कथं पतितोऽस्मि । (क) किं ते स्वकम् । (ख) कथं कपालम् । (ग) भगवन् ! केवलं लाल्यमानो न दास्यति । तदेतस्य हस्तादाच्छिन्द्र गच्छावः। (घ) बसस्व दुष्टकापालिक !