पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ मत्तविलासप्रहसनम् । कहं मं बाहन्ति । पशीदन्तु पशीदन्तु दाळअभट्टा । इमश्श मंशखण्डश्श काळणादो मा मं बाहेह । (अग्रतो विलोक्य) एशे खु अम्हाणं आआळिए शूळनन्दी । जाव णं उवशप्पामि । (इति धावति ।) पाशुपतः --- अये ! अयमुन्मत्तकः इत एवाभिवर्तते। य एषः, निर्विष्टोझितचित्रचीवरधरो रूक्षैनितान्ताकुलैः केशैरुद्धतभस्मपांसुनिचयनिर्माल्यमालाकुलैः । उच्छिष्टाशनलोलुपैबलिभुजामन्बास्यमानो गणै- भूयान् ग्रामकसारसञ्चय इव भ्राम्यन् मनुष्याकृतिः ॥ उन्मत्तकः --- (क) जाव णं उवशप्पामि । (उपसृत्य) महाशाहुणो चण्डाळकुक्कुळश्श शआशादो अहिअदं एवं कवाळं पडिगण्हदु भअवं । पाशुपतः ---- (सदृष्टिक्षेपम् ) पात्रे प्रतिपाद्यताम् । उन्मत्तकः- (ख) महाबम्हण ! कळिअदु पशादो । शाक्यभिक्षुः ----- (ग) एसो महापासुवदो एदस्स जोग्गो । कथं मां बाधन्ते । प्रसीदन्तु प्रसीदन्तु दारकभर्तारः । अस्य मांसखण्डस्य कारणाद् मा मां बाधध्वम् । एष खत्वस्माकमाचार्यः शूरनन्दी । यावदेनमुप- सामि । (क) यावदेनमुपसामि । महासाधोश्चण्डालकुक्कुरस्य सकाशादधिगतमे- तत् कपालं प्रतिगृह्णातु भगवान् । (ख) महाब्राह्मण ! क्रियतां प्रसादः । (ग) एष महापाशुपत एतस्य योग्यः ।