एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
मुद्राराक्षसे


 चाणक्यः-( विहस्य ।) ए[१]तत्कृतं राक्षसेन । वृषल, मया पुनज्ञातम् नन्दमिव भ[२]वन्तमुद्धृत्य भवानिव भूतले मलयकेतू राजाधिराजपदे नि[३]योजित इति ।

 राजा--[४]अन्येनैवेदमनुष्ठितं किमत्रार्यस्य ।

 चाणक्यः--हे[५] मत्सरिन,

आरुह्यरूढकोपस्फुरणविषमि[६]ताग्राङ्गुलीमुक्तचूडां
 लोकप्रत्यक्षमुग्रां सकलरिपुकुलो[७]त्साददीर्घां प्रतिज्ञाम् ।
केनान्येनावलिप्ता नवनवतिशतद्रव्यकोटीश्वरास्ते
 नन्दाः पयोय[८]भूताः पशव इव हताः पश्यतो राक्षसस्य ॥ २७ ॥


यणप्रभृतिषु स्वेषु वर्णेषु न विश्वसन्ति यतो वयं तानपि पुरान्निःसारितवन्त इत्यहो मतिमानतिशूर्ः साहसी महात्मा राक्षस इति ॥ २६ ॥

 विहस्येत्यादि । इदं राक्षसनीतिविभ वाधिक्षेपार्थं सोत्प्रासवचनं स्वशक्तिप्रशंसनं व्यवसायः। नन्दोद्धरणमौर्याधिराज्यस्थापनहेतोः स्वशक्तेः प्रशंसनात् ।

 अन्येनैवेमिति । इदं नन्दोद्धरणमित्यर्थः । इयं गुरुतिरस्कृतिर्देवः ।

 हे मत्सरिन्निति। मत्सरः परोत्कर्षासहनम् ।

 आरुह्यारूढेति । प्रव्रुद्धकोपावेशेन विषमिताभिर्विसंष्टुलं प्रचलिताभिरग्नाङ्गुलीभिरङ्गुल्यगैर्मुक्चूडा शिखा यस्याम् । सकलानां रिपू-


  1. वृषल before this B.E.N.G. Before वृषल further om B.E.N. have a speech राजा । अथ किम् । एतत्कृतममात्यराक्षसेन (E. om अथ किम् ) G om: वृषल and inserts न after पुनः further on.
  2. मुत्क्र्त्य for मुद्धृत्य E.; E, has पदम् and om. final इति
  3. G. N. (s) read योजितः for नियो'; A. P. E. read तुरधिराज्यपदे; B. N. (r) तुरधिराज्यमारोपितः read
  4. अनेनै° A; B.N. read अलमुपालभ्य आर्य दैवेनेदम् &c., M. after कि-स्य adds इयं गुरुरस्म्रुति:; R. इयं गुरुतिरस्कृतिः
  5. अहो M. R.
  6. For विषमिता° M. reads
    मिवकरा°;
  7. °च्छे° for ‘त्सा° B. E. N. ; °त्से° A,
  8. सूरा fox भूताः G .
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७३&oldid=322439" इत्यस्माद् प्रतिप्राप्तम्