एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
चतुर्थोऽङ्कः ।


मलयकेतुः-([१]आकणर्य।) भागुरायण, कुसुमपुरवृत्तान्तः पुंस्तूयते । न तत्र तावदुपसर्पामः श्रुणुमस्तावत् । कु[२]तः ।


[३]सवभङ्गभयाद्राज्ञां कथयन्त्यन्यथा पुरः।
अन्यथा विवृतार्थेषु स्वैरालपेषु मन्त्रिण: ॥ ८ ॥

 भागुरायणः- यदाज्ञापयति कुमार्:।

 राक्षसः-भद्र, अ[४]पि तत्कार्यं सिद्धम् ।

 पुरुषः—[५]अमच्चप्पसादेण सिद्धम् । ( क )

 मलयकेतुः-स[६]खे भागुरायण; किं तत्कार्यम् ।

 भागुरायणः- कुमार, [७]गहनः सचिववृत्तान्तः। नैतावता परिच्छेत्तुं शक्यते । अवहितस्तावच्छृ[८]णु ।

 राक्षसः-भद्र, विस्तरेण श्रोतु[९]मिच्छामि ।

 पुरुषः- सु [१०]णादु अमच्चो । अत्थि दाव अहं अमच्चेणाणत्तो


 ( क ) अमात्यप्रसादेन सिद्धम् ।

 ( ख) शृणोत्स्वमात्यः । अस्ति तावदहममात्येनाज्ञस: यथा —‘करभक,


सत्त्वभङ्गभयादिति । सत्त्वभङ्गो मनोभङ्गो विवृतार्थेषु परस्परविस्प ष्टार्थेषु ॥ ८ ॥


  1. B.E.N. have सखे for this; वर्तते for प्रस्तूयते B.प्रस्तुतः E; °त्तान्तेन तावदुपशमोऽस्य G.For what follows B. N. read तन्नोप°, E. M. तन्नतावदुप°,G.तत्पटान्तरिताव शृ°; °सर्पाव: for सर्पामः B. E. N. and शृणुव:for शृणुमः also in G.
  2. किं कारणमिति B. N.; किं कारणमेतत् G;किं कारणमिति पश्य. E. omittingशृ -तू before this.
  3. मन्त्र° B.; पुनः for पुरः A. M. P.
  4. Before भद्र R. G.
  5. अमच्चस्स B. E. N; प for प्प.E ; and ए B. E. N., ये G. , रे P., forदे in cपसादेण.
  6. om.G ; M. R. om भागु°; E. reads तत्किं कार्यं सिद्धम्
  7. खलु after this B. E. N.
  8. श्रोतुम र्हति कुमारः B. N. G; E. agrees reading इच्छति for अर्हति
  9. तत् before श्रोतुम् . G.
  10. सुणोदु R; E. reads अज़ो for अमच्चो and G, मच्चो; ताव for दाव G. which om. अमन्त्रेण further on.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१८८&oldid=324143" इत्यस्माद् प्रतिप्राप्तम्