एतत् पृष्ठम् परिष्कृतम् अस्ति
२०९
चतुर्थोऽङ्कः ।


 नृपोपकृष्टः सचिवात्तदर्पण[१] स्तनंधयोऽस्यन्तशिशुः स्तनादिव ।

 अदृष्टलोकव्यवहारमन्द[२]धीर्मुहूर्तमप्युत्सहते न वर्तितुम् ॥ १४॥

 मलयकेतुः--(आत्मग[३]तम् ।) दीष्ट्वा न सचिवायत्ततत्न्रोऽस्मि ।( प्रकाशम् ) [४]यद्यप्येवं तथापि बहुष्वभियोगकारणेषु सत्सु व्यसन-


सुस्थिरा सती तयोः संगता भवतीत्यर्थः । ' उपाद्देवपूजासंगतिकरणमित्रकरणपथिषु’ इति तङ् । यद्यपि प्रभुमन्त्रोत्साहरूपास्तिस्रः शक्त्तयस्तथाप्युत्साहशक्तेरुभयानुकूलत्वेन द्वयोरन्तर्भावाभिप्रायेणात्र सा पृथग्न गृहीता । तयोर्मन्निपार्थिवयोर्दूयोः सतौवैर् मत्येन न्यूनाधिकभावमुपेत्य द्वैधीभावेन स्थितयोः सा श्रीद्व्योः पादयोः सम्यगवष्टम्भसंभवाद्भरस्याः सहा राज्यभारं वोढुमसमर्था सती स्त्रीस्वभावाद्दौर्बल्याच्चापल्याचैकतरं मन्त्रिणं वा पार्थिवं वा जहाति । कंचित्कालं प्रभुमात्रमाश्रित्य वर्तमानापि मत्रवैकल्येन स्वयमपि नश्यत्येवं मन्त्रिणमाश्रित्य वर्तमनापि प्रभुत्ववैकल्येन नश्यतीति भावः । यथा काचन नर्तकी उच्छि्तौ समौ वंशस्तम्भौ पादाभ्यां दृढमवष्टभ्य सुस्थिरा तिष्ठति तयोर्वैषम्ये विसंष्टुलपदतया देहभरं वोढमसहा एकं हित्वान्यतरमवलम्बमाना तेन सह स्वयमपि पतति तद्वत् । अत्र प्रस्तुतेनाप्रस्तुतस्य स्फोरणात्समासोक्तिरलंकारः। एवमुच्छि्त्तः संश्चन्द्रगुप्तोऽनुच्छि्तेऽन्यस्मिन्मन्निणि धुरामसज्यासमर्थः स्यादिति प्रतिपादितम् ॥ १३ ॥

 अथात्मन्यासयेत्यस्य परिहारमाह--नृप इति।तदर्पणः तस्मिन्नेव सचिवे राज्यतत्रं सर्वमर्पयतीति तथाभूतः सचिवायत्तसिद्धिरित्यर्थः। अदृष्टलोकव्यवहारः अत एव मन्दधीरिति विशेषणसमासः । तस्मात्सचिवादपकृष्टः सन्राज्यधुरां वोढुमसमर्थो भवतीत्यर्थः ॥ १४ ॥

 दिष्टयेति । त्वयि विरुद्धवृत्तावपि स्वतन्त्रस्य मे नानिष्टमिति भावः ।

 यद्येवमिंति । व्यसनमभियुज्यमानस्य अनुसंदधानस्य व्यसनमन्विष्य


  1. अतन्त्रकः for तदर्पणः H.
  2. मूढ for मन्द B. E N. (1). H.
  3. स्वग°M, R,
  4. यद्येवम्. M. P. R. E; B. N. have अमात्य and E. आर्थ before this; B.E. N. G. have खलु after तथापि; P. reads °योगकरणेषु; G. adds अपि सचिव, B. E. N. H. सचिव between सत्सु and व्यसन; E. reads व्यसनिनमभि°.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१९८&oldid=324781" इत्यस्माद् प्रतिप्राप्तम्