एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
पञ्चमोऽङ्कः ।


 मलयकेतुः--(सक्रोधम् ।) [१]भासुरक, आज्ञाप्यतां शेखरसेनः---- “य एते राक्षसेन सह सु[२]हत्तामुत्पाद्यास्मच्छरीरद्रोहेण चन्द्रगुप्तमाराधयितु [३]कामाः पञ्च राजानः कौलूतश्चित्रवर्मा मलयनृपतिः सिंहनादः काश्मीरः पुष्कराक्षः सिन्धुराजः सुषेणः पारसीकाधि[४]पो मेघनाद इति, एतेषु त्रयः प्रथमे मदीयां भूमिं कामयन्ते ते[५] गम्मीरश्वभ्रमभिनीय पांशुभिः पूर्यन्ताम् । इतरौ हस्ति[६]बलकामुकौ हस्तिनैव घात्येताम्’ इति ।

 पुरुषः---[७] तथा । ( इति निष्क्रान्तः।)

 मलयकेतुः--(सक्रो[८]धम् ।) राक्षस, राक्षस, नाहं विश्रम्भधाती राक्षसः । मलयकेतुः खल्वहम् । तद्गच्छ । समाश्रीयतां सर्वात्मना चन्द्रगुप्तः। प[९]श्य ।

विष्णुगुप्तं च मौर्यं च स[१०]ममप्यागतौ त्वया ।
उन्मूलयितुमीशोऽहं त्रिवर्गमिव दु[११]र्नयः ॥ २२ ॥


 विष्णुगुप्तमिति । दुर्नयदृष्टान्ते स्वस्य दौरात्म्यं रोषावेशेनावशादुद्धाटितम् ॥ २२ ॥


  1. Om. B, twice in E; B. N. G. read शिखरसेनः,E. सिखसेनः and all four add सेनापतिः after this; G reads यतः for ये' and B. N. read एतेन for एते.
  2. M. R. om. सह; लौहार्दम् for सुहृत्ताम् B. N; B. E. N. read °रीराभिद्रोहेण
  3. °यितुमुद्यताः E. which and B. N. G. add तद्यथा after राजानः ; नरपतिः for °नृपतिः B. E. N.; जनधिपः G.
  4. °धिराजो. B, N; for मेघनाद E. has मेघार्क , N. G. मेघाक्ष, B. मेघाख्य ( or मेघाक्ष as a variant );for एतेषु B. N. read तत्र तेषां मध्ये ये; G. अन्न य एते; E. अत्र य एतेषाम् ; प्रथमम् for प्रथमे R. M. G.; प्रधानतमाः प्रथमा B. N.; प्रथमतरा E. which reads प्रार्थयन्ते for कामयन्तेः
  5. E. has before this तेभ्यो भूभिरेव दीयताम्; M. R G. E. read गम्भीरम्; for अभिनीय M. R. read आनीय; B. N. उपनीय
  6. Before this B. N. have तु द्वौ; P. A. E. तु; B. N. Read °बलकामौ ;E.बलकामिनौ; M. बलकोशकामुकौ. For घात्येताम् A. P. read खाद्येताम्
  7. तहेत्ति M. R, जं कुमारो आणवेदित्ति B. N.; °वेदि E.
  8. R.G.E.M. om. सक्रो°;G. E. read राक्षस only once.; M. Om. entirely.
  9. समाश्रय चन्द्रगुप्तम्.M. R.; समा...गुप्त इति. B. N, G. agrees with our text adding त्वया before चन्द्र'; B. E. N. om. पश्य
  10. सार्धम°. E.
  11. दुर्णयः G. E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४८&oldid=327848" इत्यस्माद् प्रतिप्राप्तम्