पुरुषः--अ[१]ह उण केण उवाएण तुमं चन्दणदासं मरणादो मोचेसि । (क)
राक्षसः-(खङ्गमाकृष्य ।) नन्वनेन[२] व्यवसायसुहृदा निस्त्रिंशेन।
( क ) अथ पुनः केनोपायेन त्वं चन्दनदासं मरणान्मोचयसि ।
निस्त्रिंशोऽयमिति । व्यवसायः उत्साहः। पौरुषमिति यावत् । तदेकसहायेन खग्डेन तत्सर्वं मौर्यबलमुत्साद्य सुहृदं मोचयामीत्यर्थः । सजलः जलधारासहितश्चासौ जलदव्योमासंकाशमूर्तिश्चेति विशेषणकर्मधारयः नैल्यनैर्मल्यगुणाभ्यां जलव्योमदृष्टान्तः । धाराजलसहितत्वादेव युद्धश्रद्धापुलकित इवेत्युत्प्रेक्षा धाराजलकणिकानां पुलकसादृश्यसंभवात् । सत्वोत्कषान्मम कर इवयमपि सत्त्वोत्कर्षशालीत्यर्थः । परैः समरनिकषहृष्टसारः बहुशोऽकुण्ठितशक्तित्वेनानुभूत इत्यर्थः । मित्रस्नेहाद्विवशं मित्रस्नेहाधीनतया कार्याकार्यविचारविमुखं मां साहसे नियुङुक्ते। ‘हिताहितानपेक्षं त्यत्कर्म तत्साहसं विदुः ॥ १९ ॥
- ↑ अथ E; अध B.N.;केणउण B. N.E. for तुमं B. E.N. read अज्जो;M.G.R. Omit it. R. reads मलणादा; G. मरणात्; .B.E. N.G.मोचेदि.
- ↑ R. by mistake om. राक्ष...न्वनेन and reads व्यवसायि for व्यवसाय; E. has व्यसन for it and खड्रेन for निस्त्रिंशेन. व्यसनसहायेन H.
- ↑ P. has पश्य पश्य; B. N. ननु पश्यः
- ↑ विगत B. E. G. H.; for जलदव्योम N. readsजलदाकाश.
- ↑ हाविरसम्र N.;°हाविवशम् G;मित्रस्नेहो विवशम् H.; अधुना B. E.N. G. H. read अथवा