राजा[१]---००किमतः परमपि प्रियमस्ति ।
राक्षसेन समं मैत्री राज्ये चारोपिता वयम् ॥ |
राक्षसः[२]–तथापीदमस्तु भरतवाक्यम् ।
राक्षसेनेति । इदं शुभशंसनं प्रशस्तिर्नाम निर्वहणसंधेरुत्तममङ्गम् ॥१८॥
वाराहीमिती । भूतधात्री पृथ्वी प्रलयपरिगता प्रलयेनोपप्लुता सती प्राक्कल्पादौ अवनविधौ जगद्रक्षणविधाने अनुरूपां समर्था वाराहीं तनुमाश्रितस्यात्मयोने: स्वयंभुवः आदिवराहमूर्तेर्भगवतः श्रीविष्णोर्दन्तकोटिं दंष्ट्राग्रं शिश्रिये आश्रिताभूत् । तस्यैव संप्रति राजमूर्तेः राजा चन्द्रगुप्त एव मूर्तिः शरीरं यस्य । ‘ना विष्णुः पृथिवीपतिः' इति स्मरणात् । तथाभूतस्य भगवतो भुजयुगमधुना म्लेच्छैरुद्विज्यमाना भूतधात्री संश्रितास्ते । श्रीमद्वन्धुभृत्यः श्रीमन्तः बन्धवो भृत्याश्च यस्य स तथाभूतः अनेन बन्धुभ्रत्येभ्यः संपत्प्रदत्वमस्योक्तम् । पार्थिवश्चन्द्रगुप्तः पार्थिवचन्द्रगुप्तरूपः स श्रीमाननादिविष्णुर्महीमवतु रक्षत्वित्यर्थः । अत्र श्रीविष्णो-
- ↑ This speech is not here in B. E. N., but on last page; see note I there. In P. we have अति for अपि and B. E. N. 1ead परम् for: प्रियम्; R. reads किमतः
- ↑ For this B. N, E. read राजा । किमतः (E, has अतः only) परमपि प्रियमस्ति । यदि न (यद्य E) परितोषस्तदिदमस्तु भरतवाक्यम् (तदा इदं भवतु E.).
- ↑ तनुमतनुबलामास्थि° B. E. N. H.
- ↑ E. reads प्रथि and H. पोत्र for दन्त and M, R, read कोटी. H. puts the last verse in the mouth of Chanakya.