सिन्दूरारुणगण्डमण्डलमदामोद्भ्रमद्भृङ्गिका
झ्ंकारेण कलेन कर्णभुरजध्वानेन मन्द्रेण्म च ।
तत्तौर्यत्रिकरीतिमेति शिरसः शश्वन्मन्दान्दोलनं
यस्य श्रीगणनायकः स दिशतु श्रेयांसि भूयांसि वः ॥ १ ॥
षद्भिरङ्गैरुपेताय पुमर्थामरभूरुहे ।
शंकराय नमस्कुर्मो निगमाय नयाय च ॥ २ ॥
श्रीमद्भोसलवंशभूपतिकुलामात्येषु विख्यातिमा-
न्भारद्वाजकुलार्णवेन्दुरुदभूद्वावाजिरग्न्याहितः ।
पुत्रस्तस्य किलैकभूपतिमणेर्न्त्री सदैवादृत
स्तेनासीद्रुरुवत्प्रगल्भधिषणो गङ्गधराख्योऽध्वरी ॥ ३ ॥
तस्य द्वौ तनयावुदारचरितौ कृष्णाम्बिकागर्भजा-
वेकक्ष्मापतिलालितौ गुरुपदे चारोप्य संमानितौ ।
तपुत्रेण च शाहजिक्षितिभृता ज्येष्ठानुवृत्यादृतौ
तत्तादृग्विविधाग्रहारकरणाद्विद्वत्प्रतिष्ठापकौ ॥ ४ ॥
ज्येष्ठस्तत्र सदावदातचरितः श्रीमानृसिंहाध्वरी
गायत्रीसमुपासनादिभिरपि श्रौतैर्श्च सत्कर्मभिः।
आत्मन परिपूय तं सुचरितै: पुत्रैः प्रतिष्ठाप्य च
त्रेधा ब्रह्महिताय सत्कृतिचितान्स ब्रह्मलोकानगात् ॥ ५ ॥
तस्यात्मत्रितयेऽग्रजस्तु धृतिमानानन्दुरायाध्वरी
कौमारात्प्रभृति प्रगल्भधिषणः श्रीशाहराजाद्दतः ।
इष्टापूर्तसदन्नदानसुहितत्रैविद्यवृद्धे: सह
श्रुत्युक्तार्थपरिष्क्रियापटुमतिः सत्कर्मनिष्णातधीः ॥ ६ ॥
श्रीसाम्वं त्रिपुरेश्वरीमपि कुलाराध्यं नृसिंहं यज-
न्मिष्टान्नैर्जपहोमपूजनमहैर्वासन्तिकैः शारदैः।