विष्णुगुप्ताभिधानः स बाल एव द्विजोत्तमः ।
औशनस्या दण्डनीत्यां ज्योतिःशास्त्रे च पारगः ॥ ४८ ॥
नीतिशास्त्रप्रणेता यश्चणकस्तस्य नन्दनः ।
चाणक्य इति विख्यातः श्रोत्रियः सर्वधर्मवित् ॥ ४९ ॥
गुणाढ्ये चन्द्रगुप्तेऽस्य पक्षपातो महानभूत् ।
स च नन्दकृतं तस्मै व्यसनं स्वं न्यवेदयत् ॥ ५० ॥
नन्दराज्यं तदा तस्मै प्रतिश्रुत्य बुभुक्षितः ।
भुक्तिशाल से नन्दानां प्रविश्याग्रसने स्थितः ॥ ५१ ॥
नन्दाः कुद्धा महात्मानं कालोपहतचेतसः ।
बटुरित्यवमत्यैनमासनादुदतिष्ठिपन् ॥ ५२ ॥
धिग्धिग्मा मैवमित्येवं वादिष्वखिलमन्त्रिषु ।,
अग्रासनात्ते चाणक्यं क्रोधाकुलमचीकृषन् ॥ ५३ ॥
मध्येशालं स रोषान्धः शिखामुन्मुच्य पाणिना ।
प्रतिज्ञामकरोत्तीव्रां नन्दुवंशदिधक्षया ॥ ५४ ॥
दर्पान्धान्दुर्मतीनेतानेवं मामवजानतः ।
नन्दाधमाननुत्खाय ने बन्नामि शिखामिमाम् ॥ ५५ ॥
इत्युक्त्वा निर्ययौ तूर्णं पुरात्क्षुभितमानसः ।
गतश्रियश्च ते क्रुद्धं न समादधतोद्धताः ॥ ५६ ॥
चन्द्रगुप्तोऽपि स तदा स्वनिग्रहभयाकुलः ।
निर्यायोपांशु नगराञ्चाणक्यं समुपाश्रयत् ॥ ५७ ॥
मौर्येन्दुमुपसंगृह्य कौटिल्यः कुदिलं नयम् ।
अनुसंधदातिष्ठद्यत्नं नन्दुकुलोद्धृतौ ।। ५८ ॥
स्वमित्रमिन्दुशर्माणं कृत्वा क्षपणकाकृतिम् ।
तेनाभिचारिकविदा राक्षसादीनवञ्चयत् ॥६९ ॥
नन्दराज्यार्द्धपणनात्समुत्थाप्य महाबलम् ।.
पर्वतेन्द्र म्लेच्छबलैर्न्यरुणकुसुमं पुरम् ॥ ६० ॥
नन्दाः सर्वे सुसंरब्धा निरुद्धाः प्रबलारिभिः ।
दृप्ता राक्षसवीर्येण युद्धायैव मनो दधुः ॥ ६१ ॥