एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
मुद्राराक्षसे


[१]यत्स्वयमभियोगदुःखैरसाधारणैरपाकृतं तदेव राज्यं सुखयति । कुतः।

स्वयमा [२]ह्रत्य भुञ्जाना बलिनोऽपि स्वभावतः।
गजेन्द्रा[३]श्च नरेन्द्राश्च प्रायः सीदन्ति दुःखिताः ॥ १६॥

( ततः प्रविशति यम[४]पटेन चरः।)

चरः-
 पणमह [५]जमस्स चलणे किं कज्जं देवएहि अण्णेहिं ।
 [६]एसो खु अण्णभत्राण हरइ जीअं चडपडन्तम् ॥ १७ ॥ (क)
अवि अ ।
 [७]पुरिसस्स जीविदव्वं विसमादो होइ भत्तिगहिआदो।
 [८]मारेइ सव्वलोअं जो तेण जमेण जीआमो ॥ १८॥( ख )


(क) प्रणमत यमस्य चरणं किं कार्यं दैवतैरन्यैः।
एष खल्वन्यभक्तानां हरति जीवं परिस्फुरन्तम् ॥
(ख) अपि च।
पुरुषस्य जीवितव्यं विषमाद्भवति भक्तिगृहीतात् ।
मारयति सर्वलोकं यस्तेन यमेन जीवामः ॥


 अभियोगदुःखैः कार्याभिनिवेशजनितखेदैरित्यर्थः । अयं बीजसुखागमः प्राप्तिर्नामाङ्गम् । बीजेन स्वनीतिप्रयोगेण वृषलस्य सुखा-गमात्सुखप्राप्तेः इत्थं मुखसंधेर्द्वादशाङ्गनि निरूपितानि । अतः परं यमपटचरवृतान्तः सर्वोऽपि ‘अवान्तरार्थसंबन्धः संधिरेकान्वये सति’ इत्युक्तस्य स्वपरपक्षानुरक्तापरक्तजनजिज्ञासाराक्षसमुद्रालाभाद्यवान्तरप्रयोजनसंबन्धस्य कथनार्थः । प्रयुक्ताश्च परपक्षेत्यनेन सूचितस्य यमपटचरस्य प्रवेशः ।

 चडपडन्तमिति देशीयं क्लिश्यमानमित्यर्थः ।


  1. P. om this;, °रपावृत्तं P.
  2. माहृत. K.
  3. नरेन्द्राश्च म्रुगेन्द्राश्च. H.
  4. B. has सह before यम.°
  5. यम° E.;जमस K.; चलणं A and Nagpur MSS.; चलने
    E.; करिह E.; B. has देवेहिं; M. देवदेहिं; R. देवहिं.
  6. एस्सो E; क्खु B. E.; For जीअं M.R. read जीविअं. For च...न्तम् B. थडफडन्तम्.; E. चघनफडत्तम्; N. धणफडन्तम्.; धडफडन्तम्. H.
  7. पुरु M. R.; °विसमाउ M. K.; °मायु R.; °मा अपि. E.माद्धं Nagpur MSS.; this is followed by वि in A. K. P.; होदि for होइं A. K. P.; भक्तिरहि° M. K. R. For °आदो, °यादो P.;आदेब K.; आओ Nagpur MSS.
  8. मारेदि P.;°सर्व E.; देण for तेण M.; जमेन E.; जीवामो M, R.; जीयामो E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/७३&oldid=320486" इत्यस्माद् प्रतिप्राप्तम्