एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
मुद्राराक्षसे


 चन्दनदासः—आणवेदु अज्जो । (क)

 चाणक्यः--संक्षेप[१]तो राजनि अविरुद्धाभिर्वृत्तिभिर्वर्तितव्यम्।

 चन्दनदासः--अज्ज, [२]को उण अधण्णो रण्णा विरुद्धोति अज्जेण अवगच्छीअदि । (ख)

 चाणक्यः-भवानेव[३] तावत्प्रथमम् ।

 चन्दनदासः- (कर्णौ पिधाय ) सन्तं पावं सन्तं पाव[४]म् । कीदिसो तिणाणं अग्गिणा सह विरोहो । (ग)

 चाणक्यः-—अयमीदृशो विरोधः । यस्त्वमद्या[५]पि राजापथ्यकारिणोऽमात्य[६]राक्षसस्य गृहजनं स्वगृहमभिनीय रक्षसि ।


 (क) आज्ञापयतु आर्यः ।

 (ख) आर्य, कः पुनरधन्यो राज्ञा विरुद्ध इति आर्येणावगम्यते ।

 (ग) शान्तं पापं शान्तं पापम् । कीदृशस्तृणानामग्निना सह विरोधः ।


 भवितव्यमिति । युष्माभिरिति शेषः ।

 भवानेवेति । इदं प्रतिमुखनिष्टुरवचनं वज्रम् ।

 यस्त्वमद्यपीति । पुरा पुरादपक्रमणसमये रक्षणं भवतु नाम अद्यापि मलयकेतुमाश्रित्य राजापथ्यकरणसमये तत्कलत्ररक्षणमनुचितमिति भावः।


  1. Om,in M; भवितव्यम् A. P.
  2. Before this G. has अध and E, अह.For the उण ,after this G. and E. have एसो; N. om. it; before रण्णाB.has जो; E. has जोजेरन्नासहG. अज्जेण जो जणो विरु; N. अज्जेण रजाअविरे. For the second अ in अवगच्छीअदि E. and P. have यः
  3. A. P.have भद्र:E.ननु before this; M, and R. om, तावत् G. and E. read प्रथमं तावद्वावानेव; H. reads प्रथमः
  4. A, and N. have सान्तं; G, शान्तं बावम् ;A. has the expression only once; for दि in next word. G. and M.have रि; K. दु; N. inserts उण after कीदिस.
  5. G. om. य; B. and R.read यत्त्व°.
  6. अमात्य om. in G. E; स्वगृहम्. om. in R; स्व om. in M, For अभि B. has उप G. has अमिरक्षसि
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/९७&oldid=320917" इत्यस्माद् प्रतिप्राप्तम्