एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
ग्रन्थनिर्मातॄणां सर्वथाऽभाव एव । ज्यौतिषदर्शन वैद्यकप्रभृति-
शास्त्राणां प्रायश: सर्वेषामेव विषये समानेयमवस्था |
न चापि तस्या अध्ययनाध्यापनसौलभ्यं प्रचारबाहुल्यं च
यथाभीष्ट विद्यते । पुरा खलु "महान् हि शब्दस्य प्रयोग:
विषय: । सप्तद्वीपा वसुमती त्रयो लोका:... ।” किश्च “शवति-
र्गतिकर्मा कम्बे जेष्वेव भाषिती भवति । विकार एनमार्या भाषन्ते
शव इति ।” ( महाभाध्ये पस्पशाहिक ) इत्यादिप्रमाणेभ्यो न
केवलं भारतवर्ष एव किन्त्वस्माद् बहिरपि तस्याः प्रचार आसी-
दिव्यवगम्यते । “तत्रायमप्यर्थ इदमपि सिद्धं भवति प्राजितेति ।
किच भो इण्यत एतद्र पम् ? बाढमिष्यते । एवं हि कश्चिद्वै-
याकरण | कोऽस्य रथस्य प्रवेतेति । सूतह | आयु
मन्नहं प्राजितेति । वैयाकरण | अपशब्द इति । सूत
ह। प्राप्तिज्ञो देवानांप्रिया न त्विष्टिज्ञ इष्यत एतद्र प
पमिति
वैयाकरण | आहो खल्वनेन दुरुतेन बाध्यामह इति ।
सूत आह । न खलु वेञः सूतः सुवतेरेव सूतो यदि सुवते:
कुत्सा प्रयोक्तव्या दुःसूतेनेति वक्तव्यम्” ( महाभाष्ये २ | ४ |
५६ ) । "उदहारि भगिगि या त्वं कुम्भं हरसि शिरसानडूवाहं
सावीनमभिधावन्तमद्राक्षीरिति” ( महाभाष्ये १ । १ । ५८ ) |
किश्च ।


( विप्रोऽपि यो भवेन्मूर्खः स पुराद् बहिरस्तु मे ।
कुम्भकारोऽपि यो विद्वान् स तिष्ठतु पुरं मम ॥
( भोजप्रबन्धे )

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/११४&oldid=355412" इत्यस्माद् प्रतिप्राप्तम्