एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
१२७
निवसन्नेव सनातनमुपदिदेश | अत्रत्य: प्रसिद्धः संन्यासी
प्रकाशानन्दोऽपि तेनानुगृहीतस्तस्य शिष्यो भूत्वा प्रबोधानन्द-
नाम्ना प्रसिद्धिमुपाजगाम |
काशिकापतेर्भगवतो विश्वनाथस्य मन्दिरमधिकृत्य कापि
चित्तमुद्र जयन्ती कथा प्रथिता वर्त्तते । प्राचीनंतिहासेषु काश्या
अविमुक्तक्षेत्रमिति, काशीपतेरविमुक्तेश्वर इति च नाम प्राय:
सर्वत्रैव समुपलभ्यते । 'काशो' 'विश्वेश्वर' इति नामनी तु नाति-
तमा प्राचीने इत्यपि शक्यं वक्तुम् । 'कालापहाड' इतिनाम्ना प्रसि-
द्धेन यवनराज सेनापतिना सर्वादी श्रीविश्वनाथ मन्दिरं निपातित
मासीत् । तत: परमास्तिका मणिकर्णिकातीर्थ एव श्रीविश्वनाथं
भावयन्तः पूजयन्तः कथमपि चेतांसि समादधिरे | वैक्रमपञ्च.
दशशतके प्रादुर्भूतेन भट्टनारायणेन स्वप्रभावचमत्कृतटा डर मल्ल -
महीपालद्वाराकव राख्ययवनसम्रा जो ऽनुग्रहमासाद्य लक्षसुवर्ण-
मुद्राव्ययेन रमणीयतममत्र लिहशिखरं नवं मन्दिर निर्माय पुन:
प्रतिष्ठापिता विश्वनाथ: काशिकायाम् । ततः परमकबरप्रपौत्रेण
मूर्तिमतेव हिन्दूनां दुर्भागधेयेन औरङ्गज बनाम्ना तात्कालिकेन
यवनसम्राजा स्वकीयेन सुयशसा सहैव तन्मन्दिरं पुनर्निपातितम् ।
अथ पेशवाख्यस्य दाक्षिणात्यब्राह्मण राजस्य सौभाग्यवृद्धये काश्य
तपश्चरण मनुतिष्ठता तपोमूर्तिना सिद्धिसमृद्धन पाटणकरनारा-
यणदीक्षिततेन स्वप्ने भगवदादेशमासाद्य पुन: प्रतिष्ठापितां
• भगवान् विश्वनाथ: । मन्दिरं च जगत्प्रसिद्धदातृतामहिम्ना
साध्वीकुलललामभूतया 'अहिल्याबाई' इतिप्रसिद्धया 'इन्दोर' -
.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१३५&oldid=355433" इत्यस्माद् प्रतिप्राप्तम्