एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:

कविमण्डनशम्भुभट्टा भट्टवंश्याश्च | पुराणे नीलकण्ठ चतुर्धरा:
ज्यौतिषे कमलाकर रङ्गनाथमुनीश्वरा नीलकण्ठदैवज्ञ प्रभृतयश्च ।
ततः परं ज्योतिर्विद्यावताराः श्रीमन्महामहोपाध्याय सि० आई०
ई॰इत्यादिपदवी विभूषिताः श्रीमद्रापूदेवशास्त्रिणस्तच्छिष्या:महा-
महोपाध्याय श्रीसुधाकरद्विवेदिनश्चन्द्रदेवशर्माणः स्वधर्मधुरन्धरा
ज्योतिः शास्त्रपारदृश्वानो वेताल विनायकशास्त्रियो घाटेमहादेव-
शास्त्रिणोऽन्ये च समभूवन् । तन्त्रे प्रेमनिधिभास्कररायादयः ।
अलङ्कारे पण्डितराजजगन्नाथ प्रभृतयश्च । सर्वेऽप्यमी वैदेशिका
अपि चिरं काशीमतङ्कुर्वन्तस्तांस्तान् प्रबन्धान् प्रणयन्ति स्म ।
तेषु बहूनां वंशया अद्यापि स्वपूर्वजगौरवेण समाजे लब्धपूजा:
पूज्यत्वेन जाग्रति । महानैयायिको मिथिलालङ्कारः शङ्कर मिश्रोऽपि
चरमे वयसि काशीमेव सेवते स्मेति प्रसिद्धमस्ति ।
१३०
सिद्धपुरुषविषयेऽपि काशिकागौरवमसामान्यमेव । अत्र हि
मुक्तिपुर्या देवदेवं विश्वेशं निषेवितुकामा: प्रायः सर्वेऽपि सिद्ध-
पुरुषा निवासं भेजिरे । प्रसिद्धो रामभक्तो गोस्वामितुलसी-
दासोऽपि काशिक एवासीत्, अत्रैव च विससर्ज पार्थिवं वपुः ।
परमप्रख्यातयशसः कबीरस्यापि काशिकैव जन्मभूः | लोकोत्तर-
सिद्धिशाली परमहंसस्तैलङ्गस्वाम्यपि काशिक एव। स्वामी
भास्करानन्दोऽपि नन्दनः काशिकाया: । महापण्डितो वशीकृता-
नेकनरपतियोगिराट् स्वामी विशुद्धानन्दोऽपि वाराणसेय एव ।
नास्तिक्यप्रचुर प्रचार विषमेऽपि वर्तमानसमये यादृशी
धर्मचर्चा, यादृशश्च सदाचार :, यावच शास्त्राणां परिशीलनम्,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१३८&oldid=355436" इत्यस्माद् प्रतिप्राप्तम्