एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रबन्धप्रकाश:
प्रबन्धेषु समानत्वेनैकान्ततश्चावश्यकान्यङ्गानि तु त्रीण्येव संभ-
वन्ति । तानि चैतानि - उपक्रमः, उपपत्तिः, उपसंहा-
रश्चेति । सत्यप्यावश्यकत्वेऽन्येषामङ्गानां तेषामेतेष्वेव यथा-
यथमन्तर्भावः कल्पयितुं शक्यते ।
तत्रोपक्रमे तावत्सामान्यरूपेण विषयप्रस्तावना विषय-
स्वरूपोदेशस्तदुपयोगिता चेत्यादि प्रदर्शनीयम् ।
उपपत्त्यां तत्तद्विषये साधकबाधकयुक्तिप्रमाणोपन्यास-
पूर्वकं विभिन्नसिद्धान्तानामनेकदृष्टोनां च समालोचनया विचा
रां स्वाभिमतार्थस्य च प्रतिपादनं विधेयम् । यथावश्यकं
प्रसिद्धसमुचितदृष्टान्तैरपि स्वाभिमतार्थस्य पोषणं कर्तव्यम् ।
कि बहुना, यदपि प्रसङ्गागतं सङ्गतं च तद्विषय आवश्यक
भवेत्तदत्र विचारणीयम् ।
उपसंहारे तु पूर्वोक्तानां प्रधानहेत्वादीनां संक्षेपेणानुवाद-
पूर्वक मथवानुवादमन्तरेणैव प्रतिपाद्यविषयस्योपसंहारः कर्तव्यः ।
प्रबन्धरचनायामुपयोगिनः केचिन्नियमाः |
बहिरङ्गनियमाः
प्रबन्धरचनाया उपक्रमात्पूर्व सामान्येनते नियमा अनु-
सरखोया: ।
( १ ) प्रथमं तावत् प्रतिपाद्य विषयस्वरूपस्यावधारणं कर्तव्यम् ।
विषयस्वरूपं सम्यगनवधायैव प्रायशः प्रवर्तन्ते रचनां कर्तु विद्या-
र्थिन: । ततश्च रचनायामसङ्गत्यादिदोषा अपरिहार्या भवन्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१४&oldid=355310" इत्यस्माद् प्रतिप्राप्तम्