एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
( २ ) ततश्च तत्सम्बन्धिविचाराणां स्वयं विमर्शश्चिन्तनं
च विधेयम् । एष स्वयंविमर्श एव बुद्धिविकासे मुख्य कारणम् ।
( ३ ) तदनन्तरं तद्विशिष्टविषयोपयोगिविचाराणां कृतेऽ-
न्यग्रन्थानामनुशीलनं विधातव्यम् ।
( ४ ) सामान्येन सामयिकपत्राणामितिहासादेः काव्य-
ग्रन्थरत्नानामन्यस्य चैवंविधसाहित्यस्याध्ययनं तथा तत्तद्विषयो-
पयोगिसुभाषितादीनां कण्ठस्थीकरणच निबन्धरचनावसरे
प्रासङ्गिक विचाराणां संस्फुरणाय तेषामुद्धरणाय चावश्यकम् ।
( ५ ) विषयोपयोगिनां प्रस्तुतरचनाङ्गभूतानामवान्तर-
विषयाणां प्रथमं संस्फुरक्रमेगांवैकत्र समासता लेखनं विधेयम् ।
अनन्तरमर्थानुपूर्येण शृङ्खलाबद्धा: सूत्ररूपेणैव ते लेखनीयाः ।
एवं रचनोपक्रमात् पूर्वमेव समासतो रचनाया: स्थूलरूपेणा-
कारो लेख्य: । एवं प्रधानाङ्गानां लेखनानन्तरं तेषामै चि
त्यानौचित्यादि विचार्य, साकल्येन च रचनास्वरूपमवधार्य
पश्चाद्रचना विधेया ।
+
"

अन्तरङ्गनियमाः
( १ ) समस्तप्रबन्धस्य यथावश्यकं त्रिष्वधिकेषु वा खण्डेषु
विभाग: कार्य: । ते च खण्डा : पृथक् पृथक् स्वातन्त्र्येण लेख-
नीयाः ।
तत्र प्रथमे खण्डे विषयस्योपक्रम:, मध्यमे मध्यमयो-
र्मध्यमेषु वा विषयस्योपपत्तिः, अन्तिमे चोपसंहारः कर्तव्यः ।
( २ ) अत्रेदमवधेय' यदत्र प्रतिपादितान् साधारण नियमान्
वर्जयित्वा नहि रचनाशैलीविषये निश्चिता व्यवस्थिता वा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१५&oldid=355311" इत्यस्माद् प्रतिप्राप्तम्