एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४
प्रबन्धप्रकाश:
वेदानां संस्कृतपठनपाठनप्रणाल्यां स्थानम्
वेदानां महत्त्वम् ।
कस्याविदित सचेतसो यदस्माकं भारतीयानामार्याणां
वाङ्मयं निरतिशयेन सर्वोत्कृष्टं हि स्थानं वेदानाम् । न केवलं
विभिन्नरूपेण प्रचरत आर्यधर्मस्य मूलस्रोतस्त्वेनोपजीव्यत्वेनैव
च तेषामुत्कृष्टत्वम्, किन्त्वन्यान्यदृष्ट्यापि ।
भारतीय संस्कृतेर्भारतीयानां
भाषाणाम् आर्यभाषाणां
तदितरभाषाणाम् च तात्त्विकदृष्ट्याध्ययनायानुशीलनाय च
वेदानां वैदिकभाषायाश्चानुशीलनं नितरामावश्यकम् । अन्य- -
देशीय भाषा संस्कृत्याद्यनुशीलनापेक्षयापि तेषामतीवोपयोगित्व-
मिति तु नात्र प्रकृतमिति न तद्विषये किञ्चित्प्रस्तूयते ।
अत एवास्माकं धार्मिक ग्रन्थेषु तत्र तत्र शतश: प्रकारैर्खे-
दानां महत्त्वमुद्घोच्यते ।
14
magdaga
तथा च भगवान् मनुः
BLANCH
वेदो खिला धर्ममूलम् ॥ २६ ॥
सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ १ ॥ २१ ॥
यः कश्चित्कस्यचिद् धर्मो मनुना परिकीर्तितः ।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः || २|७||
पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ।
शक्य चाप्रमेय च वेदशास्त्रमिति स्थितिः ||१२|२४||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१५२&oldid=355450" इत्यस्माद् प्रतिप्राप्तम्