एतत् पृष्ठम् अपरिष्कृतम् अस्ति

,
प्रबन्धप्रकाशः
देववाण्या अद्यत्वेऽवनतिः ।
परं हा हन्त ! सैव देववाणी अद्यत्वे सर्वथा संकुचित
गात्रा जीर्ण शीर्णा च दृश्यते । चिरादेव स्वकीय प्राचीनो-
त्कृष्टपदाद् भ्रष्टा सा शनैः शनैर्वर्तमानामधोगतिमनुप्राप्ता ।
साम्प्रतिकजगति जीवनयात्रायां या तस्याः संस्कृतज्ञानां
वावस्थितिः कस्य खलु न सा खेदावहा भवेत् । नहि तस्याः
पुरातनसमय इव सामान्यजनतायां प्रचारः,
उपयोगो वा
सामान्यलोकव्यवहारे । नहि जीवनयात्रायां राष्ट्रस्य वा
विभिन्न विभागेषु संस्कृतज्ञानस्य काचिद्विशेषापेक्षा | विलुप्त-
प्रायमेव तस्या नानाविधविद्यानामाश्रयीभूतमनल्पमनवधि च
प्राचीन साहित्यम् । नहि संस्कृतज्ञानां प्राचीनकाल इव सर्वथा
सुखेनैव जीवननिर्वाह: । नापि जनताया: पुरोयायित्वं नेतृत्वं
न चापि तेषां विशिष्ट विधया किञ्चिदपि स्थानं राज्य-
व्यवस्थापिका संसत्सु । आस्तां पुदूरे तेषां पुरातनं लोक-
नायकत्व राष्ट्रकर्णधारत्व सेनापतित्वं प्रधानामात्यत्वं,
सान्धिविग्रहिकत्वं प्राडूविवाकत्वं
वा ।
,
,
,
कुलपतित्वं पृथिव्यां
-
सर्वेषां मानवानां सदाचारोपदेष्टत्वं, नानाविधान विद्याना-
मुपज्ञातृत्व, सम्राज पुरोहितत्व दूरवर्त्तिदेशदेशान्तरेषु महा-
समुद्रान्तर्वति द्वीपपरम्परासु च भारतीय सभ्यताया भारतीय-
सदाचारस्य भारतीयसाहित्यस्य भारतीय पौराणिकगाथानां
भारतीयानां नदीना नगराणां च नाम्नां संस्थापकत्वम्
,
१५९
,
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१६७&oldid=355465" इत्यस्माद् प्रतिप्राप्तम्