एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

१८८
प्रबन्धप्रकाशः
इयमुन्नतसत्त्वशालिना महतां कापि कठोरचित्तता। उपकृत्य भवन्ति दूरतः परत: प्रत्युपकारशङ्कया ॥८॥ यन्त्रे निवेश्य सुतरामपि पीड्यमान.
स्मृष्णागृहोतहदयैः सहसे त्वमिक्षो ! यच्छन्नसं मधुरमेव नितान्तमेषि
मृ यु ततस्त्वदपरः क इवान धन्य: ॥६।। कस्यापि कोऽप्यतिशयोऽस्ति स तेन लोके
ख्याति प्रयाति न हि सर्वविदस्तु सर्वे । एकि केतकी फलति किं पनस: सुपुष्पः । - किं नागवल्ल्यपि च पुष्पफलैरुपेता ।।७।। रात्रिर्गमिष्यति भविष्यति सुप्रभातं .
भास्वानुदेष्यति हसिष्यति पङ्कजालिः । इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त ! नलिनी गज उजहार ।।७१।। जीवन्तु मे शत्रुगणा: सदैव
येषां प्रसादात्सुविचक्षणोऽहम् । यदा यदा मे विकृतिं लभन्ते
तदा तदा मां प्रतिबोधयन्ति ॥७२॥ यदि नामास्य देहस्य यदन्तस्तद् बहिर्भवेत् । 'दण्डमादाय लोकोऽय शुन: काकांश्च वारयेत् ॥७३॥
दुःखमेवास्ति न सुखं यस्मात्तदुपलक्ष्यते । - दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते ॥७४॥ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१९५&oldid=355494" इत्यस्माद् प्रतिप्राप्तम्