एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२
प्रबन्धप्रकाश:
पूर्वश्रुते च संदेहवतः पुनः श्रवत् श्रुतसंशयकर्षति । श्रुते
चासन्देहवतो भूयोऽध्यवसायमभिनिर्वर्तयति । अश्रुतमपि च
कश्चिदर्थ श्रोत्रविषयमापादयति ।
निरुक्तात्
नैष स्थाणोरपराधो यदेनमन्धो न पश्यति । पुरुषापराध:
स भवति ।
यथा जानपदीषु विद्यात: पुरुषविशेषो भवति, पारोवर्य वित्सु
तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवति ।
कस्तद्वेद यदभूतम् ?
बहुप्रजा: कृच्छ्रमापद्यत इति परिव्राजका: ।
नित्यं ह्यविज्ञातुर्विज्ञानेऽसूया |
साक्षात्कृतधर्माण ऋषयो बभूवुः । तेऽवरेभ्योऽसाक्षात्कृत-
धर्मभ्य उपदेशेन मन्त्रान्संप्रादुः । उपदेशाय ग्लायन्तोऽत्ररे
बिल्मग्रहणायेमं ग्रन्थं समान्नासिषुर्वेदं च वेदाङ्गानि च ।
मनुष्या वा ऋषिषूत्क्रामत्सु देवानब्रुवनको न ऋऋषिर्भविष्य-
तेभ्य एतं तर्कमृषिं प्रायच्छन् ।
सदेव किंचानूचानोऽभ्यूहत्यार्षं तद्भवति ।
आचार्य आचारं ग्राहयति ।
तीति ।
सैषा पुरुषगर्हा, न शास्त्रगर्दा ।
प्येक: (विद्वान) पश्यन् न पश्यति वाचम् | अपि च
शृण्वन्न शृणोत्येनाम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२१९&oldid=355518" इत्यस्माद् प्रतिप्राप्तम्