एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
-
अद्यत्वेऽपि नानादेशेषु यत्रापि शासकानामत्याचारेण
पीडिता: प्रजास्तत्रैवमेवानेक विधान्यनर्थ । नुरूपकारणानि संघ-
टितानि दरीदृश्यन्ते । तद्यथा 'कोरिया' देशस्योपरि 'जापान'-
देशवासिनां शासकानामत्याचारा: । 'मरक्को देशे च 'फ्रांस-
देशवासिनाम् । एतादृशानां हि धनसम्पत्तिरतिरोहिता,
प्रभुत्वमपि साक्षात् । अविवेकितापि प्रत्यक्षैव । अनपरा-
धिनां कारागारपातनमसमसमीक्षणमधिकारिभ्योऽध्यधिकारा-
वितरणमित्यादि सर्व बहुविधचेष्टितं तेषामविवेककारितमेव ।
तत्र व नानानर्थकारणकलापसन्निधाने स्वदेशहितचिकीषूणां
येऽपि कारागारावरोधप्रभृतयोऽनर्थप्रवाहाः समुपस्थिताः स्युस्ते
स्वल्पा इत्येवावगन्तव्यम् । स्वार्थिनां लक्ष्मीवतां प्रभूणामविवे-
किनामेतादृशामधिकारे किं किमनर्थजातं समुपस्थितं भवेदिति
को नु वक्तु शक्नोति ।
एतादृशे ह्यबसरे सुतरां सङ्घटत उपरि निर्दिष्टा कस्यापि
विद्वन्मणेर्भणितिरिंयम् -
मर्कटस्य सुरापानं ततो वृश्चिकदंशनमित्यादि |
उद्योगः
इह जगति सर्वेषामेव प्राणिनामियं स्वाभाविक्यभिवाञ्छा
यत्कथमपि शुभमधिगच्छाम इति । सत्यप्येव विरला एव ते ये

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२३&oldid=355320" इत्यस्माद् प्रतिप्राप्तम्