एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
कथादर्शनप्रभृतिप्रबन्धा: मध्येभागं चैका रजतमयी मञ्जूषा
स्थितासीत् । अनुयायिभि: बोधितो राजा तदुद्-
घाटनाय समादिष्टवान् । राजादेशानुसारं च यावदेव सोदू-
घाट्यते तावदेव स तस्यां मलिनानि छिन्नानि च चोरवाणि
वीक्ष्य साश्चर्य सभयं चाह – किमेतत् ? – इति ।
-
-


मन्त्री – देव ! पुरातनानीमानि मे दारिद्रयावस्थाया वा-
सांसि एतदर्थच सुगूढं संरक्षितानि मया यदहमहरहे। वीदयै-
तानि पुरातनीं मामकीनामवस्थां स्मरेयम् । कदापि च न
विस्मरेयं पुरा कीदृशोऽहमासमिति | नित्यमेव सभायामुपस्था-
नातू प्राक क्षणमहमेतानि पश्यामि । कदाचित् परिदधाम्यपि ।
कीदृश आसमहम् ? किं भवत्यैश्वर्ये ? कि जायते दारिद्र्य ?
केवल मेतावत्स्मरणार्थमेव सयन्त्रमेतानि स्थापितानि ।
३४
सत्यमय मेवाभ्युपायो येन “क्षणक्षयिणि सापाये भोगे
राज्यन्ति नोत्तमा: "; सम्पत्तिसद्भावेऽपि च "कोऽर्थान प्राप्य न
गार्वतः” इतिसाधारणनियममुल्लङ्घयानुत्सेकस्तेषां दृश्यते । एता-
दृशानेवोद्दिश्य महामतेर्भतृहरे: सुभाषितम्-
अनुत्सेको लक्ष्म्यां निरभिभवसारा: परकथा: ।
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ इति ॥
राजा साश्चर्य सस्नेहच तद्वचा निशम्य सभायामेत्य सवी-
स्तान् पिशुनांस्तिरश्चक्रे भर्त्सयामास च । अनन्तरं च स्वबन्धू-
नब्रवीत् | उदतेजयन्त हि मां भवन्तः सर्वदा तत्ताडनाय |
अद्य दास्येऽहं तस्मै दण्डम् । तच्चैतद् यदद्यप्रभृति स मे प्रधा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/४२&oldid=355339" इत्यस्माद् प्रतिप्राप्तम्