एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५
संराधयन्प्रियवचनसत्कारपुरःसरं साहस्रिकों गाथां कृत्वा
समभिलषितेनार्थेन त ब्राह्मणं प्रतिपूजयामास ।
अथैनं तस्य पिताऽस्थानातिव्ययनिवारणोद्यतमतिः प्रस्ताव-
क्रमागतं सानुनयमित्युवाच तात! सुभाषितप्रतिपूजने साधु
मात्रां ज्ञातुमर्हसि । महाजन: खलु ते भर्तव्यः कोशसम्पद-

पेक्षिणी च राजश्रीरतश्च त्वां ब्रवीमि ।
C
शतेन सम्पूजयितुं सुभाषित परं प्रमाणं न ततः परं क्षमम् ।
अतिप्रदातुहि किच्चिरं भवेद्धनेश्वरस्यापि धनेश्वरद्युतिः ॥
बोधिसत्व उवाच ।
S
अर्धप्रमाणं यदि नाम कतु शक्य भवेद्देव ! सुभाषितानाम् ।
व्यक्त न ते वाच्यपथं व्रजेय तनिष्क्रय राज्यमपि प्रयच्छन् ||
श्रुत्वैव यन्नाम मन: प्रसाद श्रेयोऽनुराग: स्थिरतां च याति ।
प्रज्ञा विवृद्धया विसमस्कतां च क्रय्य ननु स्यादपि तत्स्वमांसैः ॥
दीपः श्रुत' मोहतम:प्रमाथी चौराद्यहार्य परमं धनं च ।
संमोहशत्रुव्यथनाय शस्त्र नयेोपदेश परमश्च मन्त्री ॥
आपद्गतस्याप्यविकारि मित्रमपीडनी शोकरुजश्चिकित्सा |
बलं महद् दोषबलाबमर्दि परं निधानं यशसः श्रियश्च ॥
गुणैरनेकैरिति विश्रुतानि प्राप्तान्यहं प्राभृत वच्छ्रुतानि ।
शक्तः कथं नाम न पूजयेयमाज्ञां कथं वा तव लङ्घयेयम् ||
यास्यामि सौदाससमीपमस्मादर्थो न मे राज्यपरिश्रमेण ।
निवृत्तसतगुणोपमर्दे लभ्यश्च यो दोषपथानुवृत्त्या ||

२ यश्च ( परिश्रमः) निवृत्त-
प्रबन्धप्रकाशः
१ 'प्रामृत तु प्रदेशनम्' इत्यमरः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/६३&oldid=355361" इत्यस्माद् प्रतिप्राप्तम्