एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४
प्रबन्धप्रकाशः
वार्ता | सन्निहितानां प्रत्यक्षाणामप्यर्थानां याथार्थ्यता ज्ञाने तेषां
बुद्धि: स्खलति । तादृशानामेव विषये भगवदुक्तिरियं समुल्लसति-
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धि: समाधी न विधीयते ||
( भ० गी० २।४४ ) ।
यं पुन: “कश्चिद्धीर: प्रत्यगात्मानमैदावृत्तचक्षुरमृतत्व-
मिच्छन्” ( कठोपनि० ४१) इति श्रुतेरनुशासनमनुसरन्तः,
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥
( भ० गी० २१५८ ) ।
एषा ब्राह्मी स्थिति: पार्थ नैनां प्राप्य विमुह्यति ।
( भ० गी० २|७२ ) ।
इति भगवदादेशं च मनसि कृत्वा निश्चला या स्थितिस्तत्रासक्ता
ब्रह्मज्योतिर्भासितान्त:करणा विषयवासनाग्राहान्वशमानीय सं-
सृतिसागरस्य पारेगन्तारी ब्रह्मनिष्ठा नैष्ठिकास्त एव कालता देश-
तश्च व्यवहिताव्यवहित विषयाणामशेषतोऽवगन्तारो भवन्ति ।
बाह्यविषयेभ्यः प्रत्यावर्त्य चेतो ये परब्रह्मणि तत्परा भवन्ति नैव
तेषामविदितं किमपि त्रिलोक्यां भवितुमर्हति । तदाह कवि-
शिखामणिर्भवभूतिरुत्तररामचरिते– “साक्षात्कृतब्रह्माणो महर्ष
यस्तेषामृतम्भराणि भगवतां परारजांसि प्रज्ञानानि न क्वचिद्वया-
हन्यन्त इत्यनभिशङ्कीयानि” इति ।
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/९२&oldid=355390" इत्यस्माद् प्रतिप्राप्तम्