एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ यथा अबरेखायां जदरेखायां हझरेखा संपातं करोति । तत्र अ इझकोणो दइइकोणेन स मानो यदि जातस्तदा अब ६ रेखा जदरेखा च समाना- हे - न्तरा भवति । यदि च रेखे समानान्तरे । न भवतस्तदा उभे रेखे बर्दिते वचिन्हे मिलिष्यतः । तत्र वहझत्रिभुजं भविष्यति । एवं त्रिभुजाहुहिस्थः अहझकोणत्रिभुजान्तर्गतः इहझवकोणचैतौ तुल्यैौ स्याताम् । इदमनु पपन्नम् । तस्माद्रेखाद्वयं समानान्तरकं भवतीति सिद्धम् । अथाष्टाविंशतितमं क्षेत्रम् । तत्र रेखाद्वयेनान्या तृतीया रेखा संपातं करोति तदा बहि गीतकोणोऽन्तर्गतद्वितीयरेखासमीपस्थकोणसमो भवति वान्त- गीतैकदिक्कोणद्वययोगः समकोणद्वयसमानो भवति तदा - खद्वयं समानान्तरं स्यात् । यथा अबरेखया जदरेखया च हह्वरेखा संपातं करोति । तत्र हरु बकोणो बहिर्गतः झवदको णोऽन्तर्गतश्च समानौ कल्पि- ग – तौ । पुनर्बझवकोणझवद- - कोणौ युक्तौ द्वाभ्यां समको णाभ्यां समानौ कल्पितौ । तदा अबरेखा जदरेखासमानान्तरा । भ- विष्यति । अत्रोपपत्तिः। तत्र हझबकोणः अझवकोणसमानोऽस्ति । झवदकोणस्यापि स मानः। अझवकोणझवदकोणावपि समानौ । तदा अबरेखा जद रेखासमानान्तरा जाता । पुनरपि बझवकोणअझवकोणयोर्योगः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१०१&oldid=150659" इत्यस्माद् प्रतिप्राप्तम्